Wednesday, January 3, 2024

Shloka 52 - Sri Varadarajastava



        Click on the image to open:

पादानमत्सुरशिरोमणिपद्मरागान् सद्यः स्फुरत्सहजरुक्प्रकरान्कराग्रैः ।
मुक्तामयान्विदधतां प्रकटं मुरारे जैवातृकत्वमुचितं ननु ते नखानाम् ॥५२॥       
T: Oh Lord Śrī Varadarāja who slew Murā, the rubies studded in the crowns worn by the gods shine with their natural red glow. But when the gods bend with their crowns to bow down to Your feet, Your toenails make them appear like pearls, by casting their white lustre on them. Is it not moot then to consider them as moons?
Explanation: As the Amara says, अब्जो जैवातृकः सोमः indicating the epithet Jaivātṛka of the moon. He is thus known to make everything shine as white in his light. The same thing happens when the Lord's toenails render the appearance of rubies in the gods' crowns as white pearls in their proximity. So the poet justifies his allusion to the toenails as moons. 

व्याकरणांशाः
मूलम्
पादानमत्सुरशिरोमणिपद्मरागान् सद्यः स्फुरत्सहजरुक्प्रकरान्कराग्रैः ।
मुक्तामयान्विदधतां प्रकटं मुरारे जैवातृकत्वमुचितं ननु ते नखानाम् ॥५२॥
पदच्चेदः
पाद-आनमत्-सुरशिरस्-मणि-पद्म-रागान्, सद्यः, स्फुरत्-सहज-रुक्-प्रकरान्, कर-अग्रैः, मुक्त-आमयान्, विदधताम्, प्रकटम्, मुरारे, जैवातृकत्वम्, उचितम्, ननु, ते, नखानाम्
सन्धयः
सुरशिरस्-मणि= ससजुषो रुः, हशि च, आद्गुणः
सद्यः, कर-अग्रैः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
विदधताम्, प्रकटम्= मोऽनुस्वारः
कर+अग्रैः= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
मुरारे! पाद-आनमत्-सुर-शिरस्-मणि-पद्म-रागान् सद्यः स्फुरत्-सहज-रुक्-प्रकरान् कर-अग्रैः मुक्त-आमयान् विदधताम् ते नखानाम् प्रकटम् जैवातृकत्वम् ननु उचितम्
Translation
Oh Lord known also as Murāri! the rubies studded in the crowns of gods bowing down to You are at once transformed from their natural red/diseased appearance into white/disease free appearance by their white rays by Your toenails. Indeed it is apporpriate that they are imputed medicinal, healing properties of the moon!
सुबन्तप्रक्रिया
पाद-आनमत्-सुरशिरस्-मणि-पद्म-रागान्, स्फुरत्-सहज-रुक्-प्रकरान् , मुक्त-आमयान्= अ, पुं, २.३, शस्, प्रथमोयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि
सद्यः, ननु = अव्ययम्
कर-अग्रैः=अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
विदधताम् = त्, पुं, ६.३, आम्, वर्णमेलनम्
नखानाम् = अ, पुं,६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
प्रकटम्, जैवातृकत्वम्, उचितम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
मुरारे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
ते= ते = युष्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य अन्वादेशे
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
पाद-आनमत्-सुरशिरस्-मणि-पद्म-रागान्= पादं आनमन्तः केवलसमासः, नमन्तः सुराः=कर्मधारयः, तेषां शिरसि विद्यमानः मणिः= सप्तमीतत्पुरुषः, मणयः पद्मरागाः=कर्मधारयः
स्फुरत्-सहज-रुक्-प्रकरान्= स्फुरन्तः सहजाः रुक्प्रकराः, तान् = कर्मधारयः (रुक् प्रकरः= केवल समासः)
मुक्त-आमयान्= आमयः मुक्तः यस्य सः, तान् = बहुव्रीहिः
कर-अग्रैः=करस्य अग्रः, तैः = षष्ठीतत्पुरुषः
जैवातृकत्वम्= तद्धितः
मुरारे = मुरस्य अरिः, हे = षष्ठीतत्पुरुषः
The word Ruk here means glow. but another meaning of Ruk is illness. the word Muktāmaya can be split as Muktā+maya = full of pearls as well as Mukta+āmaya= free from diseases. Similarly,  the word Jaivātṛka means both the moon and a healer. The Vaijayantī  Kośa states जैवातृकश्चन्द्रभिषगायुश्ःमत्सु कृषीवले connecting the moon with healing powers. Thus, in this stanza, the poet is saying,
"the moonlike, white, healing glow of the Lord's toenails render the rubies in the genuflecting gods' crowns white as well as disease-free and so they have medicinal properties." This figure of speech is the double-meaning Śleṣa Alaṅkāra.
व्याकरणांशाः
मूलम्
यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मीर्युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥५१॥
पदच्चेदः
यत्, ते, पदाम्बुरुहम्, अम्बुरुहासन-ईड्यम्, धन्याः, प्रपद्य, सकृत्, ईश, भवन्ति, मुक्ताः, नित्यम्, तत्, एव, भजताम्, अतिमुक्तलक्ष्मीः, र्युक्ता, एव, दिव्य-मणि-नूपुर-मौक्तिकानाम्
सन्धयः
अम्बुरुहासन+ईड्यम् = आद्गुणः
धन्याः+ प्रपद्य= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
मुक्ताः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यत्, ते, पदाम्बुरुहम्, अम्बुरुहासन-ईड्यम्, धन्याः, प्रपद्य, सकृत्, ईश, भवन्ति, मुक्ताः, नित्यम्, तत्, एव, भजताम्, अतिमुक्तलक्ष्मीः, र्युक्ता, एव, दिव्य-मणि-नूपुर-मौक्तिकानाम्
नित्यम्= मोऽनुस्वारः
अतिमुक्तलक्ष्मीः+र्युक्ता = ससजुषो रुः
आकाङ्क्षा-अन्वयः
ईश! यत् ते पदाम्बुरुहम् अम्बुरुहासन-ईड्यम् धन्याः सकृत् प्रपद्य मुक्ताः भवन्ति तत् नित्यम् एव भजताम् दिव्य-मणि-नूपुर-मौक्तिकानाम् अतिमुक्तलक्ष्मीः युक्ता एव
Translation
Oh Lord! Your lotus feet are worshipped by even Lord Brahmā. Those blessed to come and worship those feet even once are liberated. Therefore, it is only fitting that the bright pearls in Your anklets that worship those feet constantly should be blessed with supreme salvation!
सुबन्तप्रक्रिया
यत्, तत् = यद्, तद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
ते = युष्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य
पदाम्बुरुहम्, अम्बुरुहासनेड्यम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
धन्याः, मुक्ताः= अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सकृत्, नित्यम्, एव= अव्ययम्
ईश= अ, पुं, १.१, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
भजताम् = भजत्, त्, नपुं, ६.३, आम्, वर्णमेलनम्
अतिमुक्तलक्ष्मीः= ई, अव्युत्पन्न, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
र्युक्ता= आ, स्त्री, १.१, सुँ, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
दिव्य-मणि-नूपुर-मौक्तिकानाम्=अ, नपुं, ६.३, आम्, हर्स्वनद्यापो नुट्, नामि,
तिङन्तप्रक्रिया
भवन्ति = भू, भ्वादि, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रपद्य = प्र+पद्, दिवादिः, आत्मनेपदी, ल्यबन्तः
पद+अम्बुरुहम्= पदम् अम्बुरुहमिव= कर्मधारयः उपमानोत्तरपदम्
अम्बुरुहासनेड्यम्= अम्बुरुहम् आसनं यस्य सः, बहुव्रीहिः, तेन ईड्यम् = तृतीयातत्पुरुषः
अतिमुक्तलक्ष्मीः= अति मुक्ता प्रादि, मुक्ता लक्ष्मीः=कर्मधारयः
दिव्य-मणि-नूपुर-मौक्तिकानाम्= दिव्यः मणिः= दिव्यमणिः, कर्मधारयः, दिव्यमणेः नूपुरम्, षष्ठीतत्पुरुषः, नूपुरस्य मौक्तिकानि, तेषाम्, षष्ठीतत्पुरुषः
Post settings Labels Appayya Dikshita,Varadarajastava, No matching suggestions Published on 02/01/2024 12:54 Links Location Search description Options Post: Edit