Saturday, January 6, 2024

Shloka 55 - Sri Varadarajastava



        Click on the image to open:

जानुद्वयं तव जगत्रयनाथ मन्ये मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकयन् यदवदातमनोज्ञवृत्तं रूपं निजं कलयते विपरीतमेषः ॥५५॥  
T: Oh Lord of the three worlds, Śrī Varadarāja, Your two knees appear to me like the play handmirrors of Manmatha. The reason is that Manmatha, seeing them as round and attractive, misconstrues them to be his own but distorted images (left-right inverted).   
Explanation:  When looking into a mirror, we find that our image is left-right inverted. This is a type of distortion according to some. Here, the Lord's idol has well-rounded and shining knees. They, in fact, look like ornamental handmirrors with gem-studded frames, belonging to Manmatha, with a penchant for beauty. But Manmatha finds his image inverted. The poet is hinting that in comparison to the Lord's form, Manmatha now thinks that the mirrors are showing him to be somewhat ugly. This is the poet's way of extolling the supreme beauty of the Lord's image. The figures of speech are Utprekṣā and Kāvyaliṅgālaṅkāra.

व्याकरणांशाः
मूलम्
जानुद्वयं तव जगत्रयनाथ मन्ये मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकयन् यदवदातमनोज्ञवृत्तं रूपं निजं कलयते विपरीतमेषः ॥५५॥
पदच्चेदः
जानुद्वयम्, तव, जगत्रय-नाथ, मन्ये, मारस्य, केलि-मणि-दर्पण-ताम्, उपेतम्,आलोकयन्, यत्, अवदात-मनोज्ञ-वृत्तम्, रूपम्, निजम्, कलयते, विपरीतम्, एषः
सन्धयः
जानुद्वयम्, मनोज्ञ-वृत्तम्, रूपम्, निजम्= मोऽनुस्वारः
यत्+अवदात=झलां जशोऽन्ते
एषः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
जगत्रय-नाथ! तव जानुद्वयम् मारस्य केलि-मणि-दर्पण-ताम् उपेतम् मन्ये। यत् एषः अवदात-मनोज्ञ-वृत्तम् आलोकयन् निजम् रूपम् विपरीतम् कलयते
Translation
Oh, Lord of the three worlds! Your two knees are being mistaken for the two ornamental gem-encircled mirrors of Manmatha, I think! Because Manmatha is mistaking the two beautiful knees as mirrors reflecting his own image in lateral inverted form, he is apprehensive they show him less beautiful than he is known to be!
सुबन्तप्रक्रिया
जानुद्वयम्, उपेतम्, अवदातम्, विपरीतम्, मनोज्ञ-वृत्तम्, रूपम्, निजम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
जगत्रय-नाथ= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मारस्य= अ, पुं, ६१. ङस्, टा ङसिङसामिनात्स्याः
केलि-मणि-दर्पण-ताम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
आलोकयन्= त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
यत्= यद्, सर्वनाम,१.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
एषः= एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, आदेशप्रत्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
मन्ये= मन्, दिवादिः, आश्त्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
कलयते= कल, चुरादिः, आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
जानुद्वयम् =जानुनोः द्वयोः समाहारः जानुद्वयम्
जगत्रय-नाथ = त्रयाणां जगताम् समाहारः, जगत्रयम् (द्विगुः) तस्य नाथः षष्ठीतत्पुरुषः, हे
केलि-मणि-दर्पण-ताम् = केल्यै कृतं मणिभूषितं दर्पणं, तस्य भावः, ताम्
मनोज्ञ-वृत्तम् = मनोज्ञं व्रित्तम् कर्मधारयः