Tuesday, January 23, 2024

Shloka 72- Sri Varadarajastava





        Click on the image to open:

वक्षःस्थलं वरद नन्दनमाश्रितस्ते येषां विभाति हरिचन्दन एष मध्ये ।
एते चतुर्भुज भुजास्तव तस्य शाखाः शङ्के कराब्जदलकोमलिताग्रभागाः ॥७२॥
T:  Oh, Lord Śrī Varadarāja, the Four-armed One, Your chest, also described as Nandanavana (Indra's celestial garden), is home to the fragrant  Haricandana. I feel that your four arms are its branches, and their ends are the delicate lotus palms of Yours!

Explanation:  The word Nandana means the giver of delight, as well as the celestial garden of Indra, called Nandanavana. The word Haricandana means both the fragrant sandal paste applied on the Lord's chest and the celestial tree Haricandana (red sandal tree). Using this pun, Śleṣa, the poet imagines that the Lord's four mighty arms are the branches of the celestial tree. This is a case of Utprekṣā.

व्याकरणांशाः
मूलम्
वक्षःस्थलं वरद नन्दनमाश्रितस्ते येषां विभाति हरिचन्दन एष मध्ये ।
एते चतुर्भुज भुजास्तव तस्य शाखाः शङ्के कराब्जदलकोमलिताग्रभागाः ॥७२॥
पदच्चेदः
वक्षःस्थलम्, वरद!, नन्दनम्,आश्रितः, ते, येषाम्, विभाति, हरिचन्दनः, एष, मध्ये, एते, चतुर्भुज!, भुजाः, तव, तस्य, शाखाः, शङ्के, कर-अब्ज-दल-कोमलित-अग्रभागाः
सन्धयः
वक्षः+स्थलम्=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, वा शरि
आश्रितः+ते, भुजाः+तव= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
वक्षःस्थलम्, येषाम्= मोऽनुस्वारः
एष = एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
शाखाः, कर-अब्ज-दल-कोमलित-अग्रभागाः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कोमलित+अग्रभागाः= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
वरद! ते वक्षःस्थलम् नन्दनम् येषाम् मध्ये आश्रितः एषः हरिचन्दनः विभाति। चतुर्भुज! तस्यशाखाः तव भुजाः कर-अब्ज-दल-कोमलित-अग्रभागाः शङ्के ।
Translation
Oh, Lord Śrī Varadarāja! Your chest is Nandana, the celestial garden. Therein stands sheltered the Haricandana tree! Oh, the Four-armed! the tree's branches are Your four arms, ending in Your delicate lotus palms, I surmise!
सुबन्तप्रक्रिया
वक्षःस्थलम्, नन्दनम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
वरद! चतुर्भुज!= अ, पुं, १.१, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
आश्रितः, हरिचन्दनः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ते = युष्मद्, पुं, ६.१, ङस्, अन्वादेशरूपम्, तेमयावेकवचनस्य
येषाम्= यद्, नपुं, ६.३, त्यदादीनामः, अतो गुणे, आमि सर्वनाम्नः सुट्, बहुवचने झल्येत्, आदेशप्रत्यययोः
एषः=एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सावनन्त्ययोः, आदेशप्रत्यययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मध्ये= अ,नपुं,७.३, ङि, आद्गुणः
एते= एतद्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः
भुजाः, कर-अब्ज-दल-कोमलित-अग्रभागाः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मदभ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
तस्य= तद्, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
शाखाः=आ, स्त्री, १.३, जस्, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
विभाति= वि+भा, अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
शङ्के= शङ्क्, भ्वादि, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
वक्षःस्थलम्= वक्षसः स्थलम् ६तत्
वरद= वरं ददाति उपपदसमासः
आश्रितः=आङ्+श्रितः कृदन्तः
हरिचन्दनः= हरेः चन्दनः ६तत्
चतुर्भुज= चतुरः भुजाः= क्स्यर्मधारयः, यस्य सः, बहुव्रीहिः
कर-अब्ज-दल-कोमलित-अग्रभागाः = करः अब्जमिव=कर्मधारयः, कराब्जस्य दलम् ६तत्, तेन कोमलितः अग्रः भागः (कर्मधारयः) ३ तत्, ते