Sunday, January 14, 2024

Shloka 63 - Sri Varadarajastava




        Click on the image to open:
ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्माद्रोमावलीपदजुषस्तमसः परस्तात् ।
मुक्तौघमण्डितमुरःस्थलमुन्मयूखं पश्यामि देव परमं पदमेव पश्चात् ॥६३॥

T:  Oh, Lord Śrī Varadarāja, in Lord Brahma's abode situated on Your lotus navel, on the Tamas appearing as the circle of hairs, the rays of light scattering darkness shine from the pearl bunches (also means the group of liberated Jīvas) situated on Your chest, the seat of liberation, I see! 

Explanation:  Above Brahmaloka are regions of darkness one has to traverse to reach the final abode of liberation, viz., the Lord's Paramapada. Those Jīvas who are blessed to be liberated are there experiencing eternal bliss. The Lord's navel is the lotus seat of Brahmaloka. Dark hairs on the Lord's body just above that spot indicate Tamas's dark regions. The Lord is wearing dazzling pearl necklaces on His chest just slightly higher. Since the Lord's chest signifies Paramapada, the poet imagines that the brilliance emanates from the light of bliss of liberated Jīvas on the Lord's chest! The pun on the word Mukta (pearl and liberated Jīva) is an example of Śleṣa figure of speech.   
व्याकरणांशाः
मूलम्
ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्माद्रोमावलीपदजुषस्तमसः परस्तात् ।
मुक्तौघमण्डितमुरःस्थलमुन्मयूखं पश्यामि देव परमं पदमेव पश्चात् ॥६३॥
पदच्चेदः
ऊर्ध्वम्, विरिञ्चि-भवनात्, तव, नाभि-पद्मात्, रोम-आवली-पद-जुषः, तमसः, परस्तात्, मुक्ता-ओघ-मण्डितम्-उरःस्थलम्, उन्मयूखम्, पश्यामि, देव, परमम्, पदम्, एव, पश्चात्
सन्धयः
ऊर्ध्वम्, उन्मयूखम्, परमम्= मोऽनुस्वारः
नाभि-पद्मात्+रोम=झलां जशोऽन्ते
रोम+आवली= अकः सवर्णे दीर्घः
पद-जुषः+तमसः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
तमसः+परस्तात्=ससजुषो रुः खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
मुक्ता+ओघ= वृद्धिरेचि
उद्+मयूखम्=यरोऽनुनासिकेऽनुनासिको वा
परस्तात्, पश्चात्=झलां जश्प्ऽन्ते, वाऽवसाने
आकाङ्क्षा-अन्वयः
देव! तव नाभि-पद्मात् ऊर्ध्वम् विरिञ्चि-भवनात् रोम-आवली-पद-जुषः तमसः परस्तात् मुक्ता-ओघ-मण्डितम् उरःस्थलम् उन्मयूखम् परमम् पदम् एव पश्चात् पश्यामि
Translation
Oh, Lord, above Your lotus navel, i.e. above Brahmaloka, I see the bunch of dark hairs of Tamas, and above them, illumining them, I see the pearl/liberaled souls-seat of Your chest, full of brilliance, the supreme abode of the liberated!
सुबन्तप्रक्रिया
ऊर्ध्वम्, परस्तात्, एव, पश्चात् = अव्ययम्
विरिञ्चि-भवनात्, नाभि-पद्मात् = अ, नपुं, ५.१, ङसिँ, टाङसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः, झलां जशोऽन्ते, वाऽवसाने
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, आत् गुणः, शेषे लोपः
रोम-आवली-पद-जुषः, तमसः = ष्/स्, नपुं, ५.१, ङसिँ, टाङसिण्गसामिनात्स्याः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुक्ता-ओघ-मण्डितम्-उरःस्थलम्, उन्मयूखम्, परमम्, पदम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
देव= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
पश्यामि= दृश्, भ्वादिः, परस्मैपदी, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
विरिञ्चि-भवनात्= विरिञ्चेः भवनम्, तस्मात् ६तत्
नाभि-पद्मात्=नाभिरेव पद्मम्, तस्मात्, अवधारणपूर्वपदकर्मधारयः
रोम-आवली-पद-जुषः, तमसः, परस्तात्, मुक्ता-ओघ-मण्डितम्-उरःस्थलम्, उन्मयूखम्, पश्यामि, देव, परमम्, पदम्, एव, पश्चात्
रोम-आवली-पद-जुषः=रोमावली इति उक्तम् जुष्, तस्मात्
मुक्ता-ओघ-मण्डितम्= मुक्तानाम् ओघः, ६तत्, तेन मण्डितम्= ३तत्
उन्मयूखम्= उद्गतम् मयूखम्, कर्मधारयः
उरःस्थलम्= उरः स्थलम्, तम्, ६तत्