Tuesday, January 30, 2024

Shloka 79 - Sri Varadarajastava



        Click on the image to open:
हस्ते विराजति तवाभयमुद्रितेऽस्मिन् अव्याजकोमलरुचिप्रकराभिरामे ।
वज्रोर्मिकांशुनिकरः कमलाधिराज्यपट्टाभिषेकसलिलौघ इवावदातः ॥७९॥
T:  Oh Lord, Your palm showing grace (Abhaya) is naturally beautified by soothing rays. Therein, the white glitter of Your rings appears like the water used in the ceremonial coronation bath of Devī Lakṣmī.
Explanation:  The pure waters from sparkling rivers are brought for the coronation bath. The diamonds on the rings adorning Śrī Varadarāja sparkle with the same pure radiance and make the poet use Utprekṣā to compare it to the pure sparkling waters used during the Abhiṣeka.
व्याकरणांशाः
मूलम्
हस्ते विराजति तवाभयमुद्रितेऽस्मिन् अव्याजकोमलरुचिप्रकराभिरामे ।
वज्रोर्मिकांशुनिकरः कमलाधिराज्यपट्टाभिषेकसलिलौघ इवावदातः ॥७९॥
पदच्चेदः
हस्ते, विराजति, तव, अभय-मुद्रिते,अस्मिन्, अ-व्याज-कोमल-रुचि-प्रकर-अभिरामे, वज्र-ऊर्मिका-अंशु-निकरः कमला- अधि-राज्य-पट्ट-अभिषेक-सलिल-ओघः, इव,अवदातः
सन्धयः
तव+अभय, मुद्रिते+अस्मिन्, प्रकर॒+अभिरामे, ऊर्मिका+अंशु, कमला+अधि, पट्ट-अभिषेक, इव,अवदातः=अकः सवर्णे दीर्घः
वज्र+ऊर्मिका=आद्गुणः
निकरः+कमला=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
सलिल+ओघः=वृद्धिरेचि
ओघः+इव= ससजुषो रुः, भोभगोअघोअपूर्वस्य, हलि सर्वेषाम्
अवदातः= ससजुषो रुः, खरवसानयोर्विसर्जणीयः
आकाङ्क्षा-अन्वयः
तव अस्मिन् अभय-मुद्रिते अ-व्याज-कोमल-रुचि-प्रकर-अभिरामे हस्ते वज्र-ऊर्मिका-अंशु-निकरः कमला-अधि-राज्य-पट्ट-अभिषेक-सलिल-ओघः इव अवदातः विराजति
Translation
In Your hand, with its natural soft glow, gesturing grace, is seen the diamond ring's white glitter that is pure and white like the sparkling waters brought for the coronation bath of Goddess Kamalā (Lakṣmī).
सुबन्तप्रक्रिया
हस्ते, अभय-मुद्रिते, अ-व्याज-कोमल-रुचि-प्रकर-अभिरामे= अ, पुं, ७.१, ङि, आद्गुणः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
अस्मिन्= इदम्, पुं, ७.१, ङि, त्यदादीनामः, अतो गुणे, ङसिङ्योः स्मात्स्मिनौ, हलि लोपः
वज्र-ऊर्मिका-अंशु-निकरः,कमला-अधि-राज्य-पट्ट-अभिषेक-सलिल-ओघः, अवदातः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
इव= अव्ययम्
तिङन्तप्रक्रिया
विराजति= वि+राज्, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अभय-मुद्रिते = अभयेन मुद्रितः, तस्मिन्, ३तत्
अ-व्याज-कोमल-रुचि-प्रकर-अभिरामे=न व्याजः नञ् तत्पुरुषः, अव्याजः, कोमलः, रुचिः कर्मधारयः. रुचेः प्रकरः ६तत्, प्रकरेण अभिरमते अत्र ३ तत्, तस्मिन्
वज्र-ऊर्मिका-अंशु-निकरः =वज्रस्य ऊर्मिका ६तत्, तस्याः अंशुः, ६तत्, तस्य निकरः ६तत्
कमला-अधि-राज्य-पट्ट-अभिषेक-सलिल-ओघः =कमलायाः अधि-राज्यस्य पट्टाभिषेकः, तस्मै आनीतः सलिलस्य ओघः (६तत्), ४तत्पुरुषः