Tuesday, January 2, 2024

Shloka 51 - Sri Varadarajastava



        Click on the image to open:


यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मीर्युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥५१॥        
T: Oh Lord Śrī Varadarāja, Your lotus feet are worshipped and adored by Lord Brahmā himself. They confer salvation even on those who come and worship them only once. Therefore those divinely beautiful pearls that permanently stud the anklets adorning Your feet certainly deserve their lustre of supreme liberation!
Explanation: The poet is punning here cleverly on the word mukta and atimukta. Atimukta in one sense means higher than liberated souls.  The other sense for Atimukta = the splendorous Vāsantī white flowers that the pearls (mukta) resemble.   So the poet here is asserting that the splendorous pearls in the Lord's anklets are superior to even liberated souls.  He gives his logic: when devotees come and worship the Lord's feet even once, they are instantly liberated. Then these pearls whose home is the Lord's feet in those anklets should excel those devotees on account of their worshipping the Lord's feet constantly, so they are certainly Atimukta (=superliberated as well as superbrilliant like Vāsantī flowers!)

व्याकरणांशाः
मूलम्
यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मीर्युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥५१॥
पदच्चेदः
यत्, ते, पदाम्बुरुहम्, अम्बुरुहासन-ईड्यम्, धन्याः, प्रपद्य, सकृत्, ईश, भवन्ति, मुक्ताः, नित्यम्, तत्, एव, भजताम्, अतिमुक्तलक्ष्मीः, र्युक्ता, एव, दिव्य-मणि-नूपुर-मौक्तिकानाम्
सन्धयः
अम्बुरुहासन+ईड्यम् = आद्गुणः
धन्याः+ प्रपद्य= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
मुक्ताः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यत्, ते, पदाम्बुरुहम्, अम्बुरुहासन-ईड्यम्, धन्याः, प्रपद्य, सकृत्, ईश, भवन्ति, मुक्ताः, नित्यम्, तत्, एव, भजताम्, अतिमुक्तलक्ष्मीः, र्युक्ता, एव, दिव्य-मणि-नूपुर-मौक्तिकानाम्
नित्यम्= मोऽनुस्वारः
अतिमुक्तलक्ष्मीः+र्युक्ता = ससजुषो रुः
आकाङ्क्षा-अन्वयः
ईश! यत् ते पदाम्बुरुहम् अम्बुरुहासन-ईड्यम् धन्याः सकृत् प्रपद्य मुक्ताः भवन्ति तत् नित्यम् एव भजताम् दिव्य-मणि-नूपुर-मौक्तिकानाम् अतिमुक्तलक्ष्मीः युक्ता एव
Translation
Oh Lord! Your lotus feet are worshipped by even Lord Brahmā. Those blessed to come and worship those feet even once are liberated. Therefore, it is only fitting that the bright pearls in Your anklets that worship those feet constantly should be blessed with supreme salvation!
सुबन्तप्रक्रिया
यत्, तत् = यद्, तद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
ते = युष्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य
पदाम्बुरुहम्, अम्बुरुहासनेड्यम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
धन्याः, मुक्ताः= अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सकृत्, नित्यम्, एव= अव्ययम्
ईश= अ, पुं, १.१, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
भजताम् = भजत्, त्, नपुं, ६.३, आम्, वर्णमेलनम्
अतिमुक्तलक्ष्मीः= ई, अव्युत्पन्न, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
र्युक्ता= आ, स्त्री, १.१, सुँ, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
दिव्य-मणि-नूपुर-मौक्तिकानाम्=अ, नपुं, ६.३, आम्, हर्स्वनद्यापो नुट्, नामि,
तिङन्तप्रक्रिया
भवन्ति = भू, भ्वादि, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रपद्य = प्र+पद्, दिवादिः, आत्मनेपदी, ल्यबन्तः
पद+अम्बुरुहम्= पदम् अम्बुरुहमिव= कर्मधारयः उपमानोत्तरपदम्
अम्बुरुहासनेड्यम्= अम्बुरुहम् आसनं यस्य सः, बहुव्रीहिः, तेन ईड्यम् = तृतीयातत्पुरुषः
अतिमुक्तलक्ष्मीः= अति मुक्ता प्रादि, मुक्ता लक्ष्मीः=कर्मधारयः
दिव्य-मणि-नूपुर-मौक्तिकानाम्= दिव्यः मणिः= दिव्यमणिः, कर्मधारयः, दिव्यमणेः नूपुरम्, षष्ठीतत्पुरुषः, नूपुरस्य मौक्तिकानि, तेषाम्, षष्ठीतत्पुरुषः