Monday, January 1, 2024

Shloka 50 - Sri Varadarajastava



        Click on the image to open:
गङ्गाच्छलेन तव निःसृतमूर्ध्वगाढसङ्घट्टनात् पदनखाग्रमयूखलेशम् ।
आलोक्य नूनममराः पतितं पयोधावामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥५०॥        
T: Oh Lord of the three worlds, carried then by the force of Gaṅgā's flow, a bit of the luminous glow of Your toenail was dropped at the moment when Your foot struck the roof of the universe Brahmāṇḍa, and that glow was dropped into the Milky Ocean. Seeing this, the gods retrieved that glow in the form of the moon from the Milky Ocean.
Explanation: When the Lord took up the Avatāra of Trivikrama, His foot was raised and struck the roof of the universe i.e. Brahmāṇḍa. According to the poet's imagination, that friction dislodged the luminosity from one of His toenails. That was carried rapidly in all directions by the holy river Gaṅgā during her descent and deposited finally in the Milky Ocean.  When the gods churned the Milky Ocean, they managed to retrieve that glow in the form of the moon, who famously rose from the Milky Ocean during Samudra Manthana. This imaginative construction is the poet's way of drawing our attention to the moonlike glow of Lord Śrī Varadarāja's toenails.

व्याकरणांशाः
मूलम्
गङ्गाच्छलेन तव निःसृतमूर्ध्वगाढसङ्घट्टनात् पदनखाग्रमयूखलेशम् ।
आलोक्य नूनममराः पतितं पयोधावामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥५०॥
पदच्चेदः
गङ्गा-छलेन, तव, निस्-सृतम्, ऊर्ध्व-गाढ-सङ्घट्टनात्, पद-नख-अग्र-मयूख-लेशम्, आ-लोक्य, नूनम्, अमराः, पतितम्, पयोधौ, आ-मथ्य, तम्, जगृहुः, ईश, तत्, इन्दु-रूपम्
सन्धयः
गङ्गा+छलेन=गङ्गाच्छलेन= छे च, पदान्ताद्वा, स्तोः श्चुना श्चुः
पतितम्,तम्= मोऽनुस्वारः
निस्-सृतम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नख-अग्र= अकः सवर्णे दीर्घः
पयोधौ+आ-मथ्य=एचोऽयनायावः
जगृहुः, ईश= ससजुषो रुः
तत्, इन्दु-रूपम् = झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
ईश! तव पद-नख-अग्र-मयूख-लेशम् ऊर्ध्व-गाढ-सङ्घट्टनात् गङ्गा-छलेन निस्-सृतम् पयोधौ पतितम् नूनम् आ-लोक्य अमराः (पयोधिम्) आ-मथ्य तम् जगृहुः तत् इन्दु-रूपम्
Translation
Oh Lord! Your toenails' luminosity's small portion, by the striking of Your foot to the roof of the universe, was dislodged and carried by Gaṅgā's forceful flow and deposited finally in the Milky Ocean. Certainly, the gods witnessed this and retrieved it by churning the Ocean. That is now seen as the moon!
सुबन्तप्रक्रिया
गङ्गा-छलेन = अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
तव= युष्मद्, ६.१., ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
निस्-सृतम्, पतितम् , पद-नख-अग्र-मयूख-लेशम् = अ, नपुं, २,.१, अम्, अतोऽम्, अमि पूर्वः
ऊर्ध्व-गाढ-सङ्घट्टनात्= अ, नपुं, ५१. ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
इन्दु-रूपम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
नूनम् = अव्ययम्
अमराः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पयोधौ = इ, पुं, ७.१, ङि, अच्च घेः, वृद्धिरेचि
तम् = तद्, पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, अमि पूर्वः
ईश = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तत् = तद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
तिङन्तप्रक्रिया
जगृहुः= ग्रह्, क्र्यादि, उभयपदी (आ), लिट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
आलोक्य, आमथ्य, प्रादि, कृदन्त ल्यप्
पद-नख-अग्र-मयूख-लेशम्= पदस्य नखम्, तस्य अग्रम्, तस्य मयूखाः, तेषां लेशः, तम् षष्ठीतत्पुरुषः
ऊर्ध्व-गाढ-सङ्घट्टनात्= गाढम् स्ङ्घट्टनम् (प्रादि) कर्मधारयः.ऊर्ध्वे गाढस्ङ्घट्टनम् सप्तमी तत्पुरुषः
गङ्गा-छलेन= गङ्गायाः छलः, तेन षष्ठीतत्पुरुषः
इन्दु-रूपम् = इन्दोः रूपम्, षष्ठीतत्पुरुषः