Sunday, December 31, 2023

Shloka 49 - Sri Varadarajastava



        Click on the image to open:


भासा पदं तव रमाधिप भूषयन्ति संसेवकांश्च विबुधान्परितोषयन्ति ।
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥४९॥
T: Oh Śrī Varadarāja, Lord of Devī Lakṣmī, resident in Your toenails, the ten moons illumine the skies. They delight the gods in attendance on You as well as dispel all darkness. And on the other hand, they also dry up the ocean of worldly existence for all Your devotees! 

Explanation: It is but natural for the moon to fill up the skies with his cool luminosity, and give delight to all the gods. He also dispels darkness as can be expected. This is accomplished, says the poet, by the moons resident in the Lord's toenails.   But it is in the moon's nature to make the oceans rise as they wax upon his appearance. But these moons in the Lord's toenails are acting just the opposite. They are drying up the ocean of worldly misery drowning the Lord's devotees! This emancipation for the Lord's devotees means that they escape the repeated cycles of birth and death in this world of suffering called Saṃsāra. By attributing a greater quality to the compared toenails in contrast to the moon, the poet is using the figure of speech called Vyatirekālaṅkāra (simile of contrast).   

व्याकरणांशाः
मूलम्
भासा पदं तव रमाधिप भूषयन्ति संसेवकांश्च विबुधान्परितोषयन्ति ।
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥४९॥
पदच्चेदः
भासा, पदम्, तव, रमा-अधिप, भूषयन्ति, संसेवकान्, च, विबुधान्, परितोषयन्ति, नाथ, क्षिपन्ति, च, तमांसि, नख-इन्दवः, ते, संशोषयन्ति, अपि, तु, भक्त-भव-अम्बु-राशिम्
सन्धयः
पदम्= मोऽनुस्वारः
रमा+अधिप, भव+अम्बु= अकः स्वर्णे दीर्घः
नखेन्दवः+ते= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
संशोषयन्ति+अपि=इको यणचि
संसेवकान्+च= नश्छव्यप्रशान्, अत्रानुनासिकः पूर्वस्य तु वा, अनुनासिकात्परोऽनुस्वारः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
आकाङ्क्षा-अन्वयः
रमा-अधिप! ते नख-इन्दवः भासा तव पदम् भूषयन्ति, संसेवकान् विबुधान् परितोषयन्ति च| नाथ! तमांसि च क्षिपन्ति, अपि तु भक्त-भव-अम्बु-राशिम् संशोषयन्ति!
Translation
Oh,Lord of Devī Lakṣmī! The moons in Your toenails by luminosity adron Your feet as well as the three worlds. They also delight all the gods in Your attendance. They dispel darkness too. But on the other hand, oh Lord, they also dry up the ocean of worldly exitence of Your devotees!
सुबन्तप्रक्रिया
भासा= भास्, स्त्री, ३.१, टा, टा ङसिण्गसामिनात्स्याः
पदम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तव= युष्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो ग़ुणे, शेषे लोपः
रमा-अधिप, नाथ= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
संसेवकान्, विबुधान्= अ, पुं, २.३, शस्, प्रथमयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि
च, अपि, तु= अव्ययम्
तमांसि= तमस्, नपुं, २.३, शस्, जश्शसोः शिः, नपुंसकस्य झलचः, सान्तमहतः संयोगान्तस्य, नश्चापदान्तस्य झलि
नख-इन्दवः= उ, पुं, १.३, जस्, जसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ते= तद्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः
भक्त-भव-अम्बु-राशिम् = इ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
भूषयन्ति, सन्तोषयन्ति, संशोषयन्ति= भ्वादि, परस्मैपदी, णिच्, लट्, प्रथपुरुषः, बहुवचनम्
क्षिपन्ति= भ्वादि, परस्मैपदी, लट्, प्रथपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
रमायाः अधिपः, सम्बोधनम् = षष्ठीतत्पुरुषः
भक्तानां भव एव अम्बोः राशिः, कर्मधारयः, षष्ठीतत्पुरुषः