Saturday, December 23, 2023

Shloka 42 - Sri Varadarajastava

\

        Click on the image to open:

पद्मोपमात् पदयुगात्तव रत्नगर्भा जातेति पद्मसदृशाकृतिमाहुरेनाम् ।
कार्यं हि कारणगुणानतिवर्ति लोके प्रायः पतङ्गपतिवाह विलोकयामः ॥४२॥
T: Oh, Lord Śrī Varadarāja, you who rides on the divine eagle Garuḍa! Considering that Earth, described as the treasure womb of gems, was born from Your lotus-like feet, she is sometimes described as a lotus in Purāṇic scriptures. This is an instance when we can see the result of a cause manifesting properties not contradicting the attributes of its cause.                     
Explanation: We see in a cause-effect phenomenon the attributes of the cause manifest in the result.  Earth as the effect has been borne of the Lord's feet, its cause. 
पद्भ्यां भूमिर्दिशः श्रोत्रात् Padbhyāṃ Bhūmirdiśaḥ Śrotrāt  is the Purāṇic assertion.  
Since the Lord's foot, which is the cause, is like the lotus, the Purāṇas affirm that Earth as the result or its effect is also like the lotus.  In Vāmana Purāṇa, it is said:

भूमिं तु पङ्कजकरां तन्मध्ये कर्णिकाकृतिम् ।
मेरुं ददर्श शैलेन्द्र शातकुम्भं महद्धिमम्    ॥ 

Thus, Earth is described as having the shape of a lotus.

The ratification of a particlar instance or phenomenon by employing the logic of a common experience or understanding is a case of Arthāntaranyāsa figure of speech.

व्याकरणांशाः
मूलम्
पद्मोपमात् पदयुगात्तव रत्नगर्भा जातेति पद्मसदृशाकृतिमाहुरेनाम् ।
कार्यं हि कारणगुणानतिवर्ति लोके प्रायः पतङ्गपतिवाह विलोकयामः ॥४२॥
पदच्चेदः
पद्म-उपमात्, पद-युगात्-तव, रत्न-गर्भा, जाता, इति, पद्म-सदृश-आकृतिम्,आहुः,एनाम्, कार्यम्, हि, कारण-गुणान्, अतिवर्ति, लोके, प्रायः, पतङ्ग-पति-वाह, विलोकयामः
सन्धयः
पद्म+उपमात्, जाता+इति =आद्गुणः
पद्म-सदृश+आकृतिम्= अकः सवर्णे दीर्घः
आहुः+एनाम्= ससजुषो रुः
कार्यम्= मोऽनुस्वारः
विलोकयामः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
पतङ्ग-पति-वाह! तव पद्म-उपमात् पद-युगात् रत्न-गर्भा जाता इति एनाम् पद्म-सदृश-आकृतिम् आहुः । प्रायः कार्यम् हि कारण-गुणान् अतिवर्ति लोके इति विलोकयामः
Translation
Oh, Lord who rides the king of birds, Garuḍa! From Your lotus-like feet Earth. the womb of all gems and treasures, is known to be born. Thus poets attribute to her the form similar to a lotus. Indeed, we see in this world that effect takes on the attributes of its cause in general.
सुबन्तप्रक्रिया
पद्म-उपमात्, पद-युगात् = अ, नपुं, ५.१, ङसिँ, ताङसिण्गसामिनात्स्याः, आद्गुणः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, आतो ग़ूणे, शेषे लोपः
रत्न-गर्भा, जाता= आ, स्त्री, १.१, सुँ, हल्ङ्यब्भो दीर्घात् सुतोस्यप्कृतम् हल्
इति, हि, प्रायः = अव्ययम्
पद्म-सदृश-आकृतिम्= इ, स्त्री, २.१, अम्, अमि पूर्वः
एनाम् = इदम्, स्त्री, २.१, अम्, अन्वादेशः, द्वितीयाटौस्स्वेनः, अजाद्यतष्टप्, अक सवर्णे दीर्घः, अमि पूर्वः
कार्यम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
कारण-गुणान् = अ, पुं, २.३, २.३, शस्, प्रथमयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि, पदान्तस्य
अतिवर्ति= इ, नपुं, १.१, स्वमोर्नपुंसकात्
लोके= अ, पुं, ७.३, ङि,आद्गुणः
पतङ्ग-पति-वाह= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
आहुः= ब्रू, अदादि, उभयपदी, लट्, प्रथमपुरुषः, बहुवचनम्
विलोकयामः= वि+लोक्, भ्वादि, परस्मैपदी, उत्तमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
पद्म-उपमात् =पद्मस्य उपमम्, तस्मात्, षष्ठीतत्पुरुषः
पद-युगात् = पदस्य युगम्, तस्मात्, षष्ठीतत्पुरुषः
रत्न-गर्भा= रत्नानां गर्भा, षष्ठीतत्पुरुषः
पद्म-सदृश-आकृतिम् = पद्मना सदृशं = तृतीया तत्पुरुषः, सदॄशं आकृतिः= कर्मधारयः
कारण-गुणान् = कारणस्य गुणाः, तान्, षष्ठीतत्पुरुषः
अतिवर्ति = अति वर्तति यत्, उपपद समासः
पतङ्ग-पति-वाह = पतण्ग्गानां पतिः, षष्ठीतत्पुरुषः, पतिः वाहः यस्य सः= व्यधिकरणबहुव्रीहिः