Friday, December 15, 2023

Shloka 33 - Sri Varadarajastava


        Click on the image to open:


आपादमौलिविधृतेषु विभान्ति देव स्थूलेन्द्रनीलमणयो मणिभूषणेषु ।
रागादुपेत्य तव सुन्दर तत्तदङ्गे लग्नानि लोकसुदृशामिव लोचनानि ॥३३॥
T: Oh, Śrī Varadarāja, in all the beautiful bejewelled ornaments worn from foot to crest on Your form here, the large celestial blue Indranīla gems shine with lovely glitter like the beautiful eyes of comely damsels that embed themselves in Your form as they behold You!

Explanation: The eyes of lovely damsels who come to see Śrī Varadarāja are large, black and shiny with feeling. These eyes are being compared to the Indranīla gems embedded in all the Lord's ornaments and shining uniquely. The eyes come and attach themselves out of love for the Lord like the gems are studded all over His being. This comparison is the figure of speech of Utprekṣā.

व्याकरणांशाः
मूलम्
आपादमौलिविधृतेषु विभान्ति देव स्थूलेन्द्रनीलमणयो मणिभूषणेषु ।
रागादुपेत्य तव सुन्दर तत्तदङ्गे लग्नानि लोकसुदृशामिव लोचनानि ॥३३॥
पदच्चेदः
आ-पाद-मौलि-विधृतेषु, विभान्ति, देव, स्थूल-इन्द्रनील-मणयः, मणि-भूषणेषु, रागात्,उपेत्य, तव, सुन्दर, तत्-तत्-अङ्गे, लग्नानि, लोक-सुदृशाम्, इव, लोचनानि
सन्धयः
मणयः+मणि = ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
रागात्+उपेत्य, तत्तत्+अङ्गे= झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
हे देव! आ-पाद-मौलि-विधृतेषु मणि-भूषणेषु स्थूल-इन्द्रनील-मणयः विभान्ति सुन्दर! रागात् उपेत्य तव तत्-तत्-अङ्गे लग्नानि लोक-सुदृशाम् लोचनानि इव


Oh, Lord, in the ornaments worn toe-to head studded with gems are the large Indranīla gems, shining like, oh beautiful one, the loving eyes of the damsels come to attach themselves to Your various body parts!
सुबन्तप्रक्रिया
आ-पाद-मौलि-विधृतेषु, मणि-भूषणेषु= अ, नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
देव, सुन्दर= अ पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
स्थूल-इन्द्रनील-मणयः= इ, पुं, १.३, जस् - जसि च, एचोयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
रागात् = अ पुं, ५.१, ङसिँ, टाङसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः
तव= युष्मद् सर्वनाम, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
तत्-तत्-अङ्गे = अ, नपुं, ७.१, ङि, आद्गुणः
लग्नानि, लोचनानि= अ नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
लोक-सुदृशाम् = श्, स्त्री, ६.३, आम्, वर्णमेलनम्
तिङन्तप्रक्रिया
विभान्ति = वि+ भा, अदादि, परस्मैपदी, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
आ-पाद-मौलि-विधृतेषु = आपादात् मौलौ विधृतम्, तेषु, केवल समासः
मणि-भूषणेषु= मणीभिः भूषितानि, बहुव्रीहिः, तेषु
स्थूल-इन्द्रनील-मणयः=स्थूलाः इन्द्रनील इतिमणयः कर्मधारयः
लोक-सुदृशाम् = सुष्टु दृशौ यस्याः सा, सुदृश्, बहुव्रीहिः, लोकानां सुदृशः, तेषाम् = षष्ठीतत्पुरुषः