Friday, December 1, 2023

Shloka 19- Sri Varadarajastava





        Click on the image to open:

निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि निर्यात इत्यधिप न त्वयि चित्रमेतत् ।
हृत्त्वा हठान्मृगदृशां हृदयानि यस्त्वम् एवं निलीय किल तिष्ठसि शैलशृङ्गे ॥१९॥
T: Oh, Lord of the universe! One who has given up his heart to You in devotion and attained liberation shall never again get his heart back! This is no surprise because all the hearts of the doe-eyed damsels who have been attracted to You and come to You have been abducted by You and thereafter have You not gone into hiding in this Hastiśaila?

Explanation:  The form of Lord Śrī Varadarāja is so attractive that the damsels who come and set their eyes on Him at once surrender their hearts to Him. The poet is injecting humour here by saying that Varadarāja has stolen the hearts of these beautiful damsels, and, like a thief with his loot, is hiding on the hill of Hastiśaila. Through this exaggeration, the poet is also conveying a sublime Vedāntic truth. Those who have completely surrendered their hearts to the Lord, Iśvara, become liberated and shall have no rebirth. Therefore there is no question of the Lord's ever returning their hearts to them (as it is needed only for embodied souls!)

व्याकरणांशाः
मूलम्
निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि निर्यात इत्यधिप न त्वयि चित्रमेतत् ।
हृत्त्वा हठान्मृगदृशां हृदयानि यस्त्वम् एवं निलीय किल तिष्ठसि शैलशृङ्गे ॥१९॥
पदच्चेदः
निक्षिप्य, हृत्, त्वयि, पुनर्, लभते, न, कः, अपि, निर्यातः, इति, अधिप, न, त्वयि, चित्रम्, एतत्, हृत्त्वा, हठआत्, मृगदृशाम्, हृदयानि, यः, त्वम्, एवम्, निलीय, किल, तिष्ठसि, शैलशृङ्गे
सन्धयः
हृत्+ त्वयि = झलां जशोऽन्ते, खरि च
पुनर्+ लभते=वर्णमेलनम्
कः+ अपि= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
निर्यातः = ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
इति+ अधिप + इको यणचि
हठात्+ मृगदृशाम् = झलाम् जशोऽन्ते, यरोऽनुनासिकेऽनुनासिको वा
यः+त्वम् = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
एवम्, मृगदृशाम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
हे अधिप! त्वयि हृत् निक्षिप्य न कः निर्यातः अपि पुनर् हृत् लभते इति त्वयि एतत् न चित्रम्। यः त्वम् एवम् मृगदृशाम् हृदयानि हठात् हृत्त्वा शैलशृङ्गे निलीय तिष्ठसि किल?
Oh, Lord, after surrendering his heart in You through total devotion, who among the liberated ever gets his heart back? This is indeed no surprise for it is the same You who steal the doe-eyed damsels' hearts and go hide in the Hastiśaila; is that not so?
सुबन्तप्रक्रिया
हृत् - त् नपुं, २.१, अम्, स्वमोर्नपुंसकात्
त्वयि - युष्मद्, पुं, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
पुनर् , अपि, न, इति, एवम्, किल- अव्ययम्
कः - किम्, सर्वनाम, पुं, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
निर्यातः - अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अधिप - अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
चित्रम् - अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
एतत् - एतद्, सर्वनाम, नपुं, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तम् हल्, झलां जशोऽन्ते, वाऽवसाने
हठात् - अ, पुं, ५.१, ङसि, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
मृगदृशाम् - आ, स्त्री, ६.३, आम्, वर्णमेलनम्
हृदयानि - अ नपुं, २.१, शस्, जस्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
यः - यद्, पुं, १.१, सुं॒, त्यदादीनामः, अतो गुणे, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वम् - युष्मद्, पुं, १.१, सुँ, ङे प्रथमयोरम्, त्वाहौ सौ, अतो गुणे, शेषे लोपः
शैलशृङ्गे - अ पुं, ७.१, ङि, आद्गुणः
तिङन्तप्रक्रिया
लभते - लभ्, भ्वादि, आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
तिष्ठसि - स्था, भ्वादि, परस्मैपदी, लट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
निक्षिप्य, निलीय - ल्यबन्त
हृत्वा- हृ, भ्वादि, क्त्वान्त
मृगदृश् - मृगस्य दृश्, ममृगदृश् इव दृश् यस्याः सा, तेषाम्