Thursday, December 14, 2023

Shloka 32 - Sri Varadarajastava


        Click on the image to open:



आबद्धपङ्क्तिमहितानि तव त्रिधामन् वीध्राणि हीरशकलानि विभूषणेषु ।
सम्मोहनानि सरसीरुहलोचनानां मन्त्राक्षराणि कलये मकरध्वजस्य ॥
T: Oh, Śrī Varadarāja, for the processes of creation, sustenance and destruction, You have assumed the forms of Brahma-Viṣṇu - Maheśvara Trinity. Oh, the Supreme Lord of the three worlds, the diamond stones sparkling amidst Your ornaments appear to be the seed Mantras of the God of Love, Manmatha for all the damsels with lotus eyes coming to You!

Explanation: Just as the seed Mantras of Manmatha have a powerful effect on romantic young women, the poet feels the diamonds glittering on the Śrī Varadarāja's person are having the same effect on the onlooking damsels. 

व्याकरणांशाः
मूलम्
आबद्धपङ्क्तिमहितानि तव त्रिधामन् वीध्राणि हीरशकलानि विभूषणेषु ।
सम्मोहनानि सरसीरुहलोचनानां मन्त्राक्षराणि कलये मकरध्वजस्य ॥
पदच्चेदः
आबद्ध-पङ्क्ति-महितानि. तव, त्रिधामन्, वीध्राणि, हीर-शकलानि, विभूषणेषु,सम्मोहनानि, सरसीरुहलोचनानाम्, मन्त्र-अक्षराणि, कलये, मकरध्वजस्य
सन्धयः
None
आकाङ्क्षा-अन्वयः
हे त्रिधामन् ! तव विभूषणेषु आबद्ध-पङ्क्ति-महितानि वीध्राणि हीर-शकलानि सरसीरुहलोचनानाम् सम्मोहनानि मकरध्वजस्य मन्त्र-अक्षराणि कलये
Oh, Lord of the three worlds, in Your various ornaments are embedded serially glittering diamonds that hark to the mystic syllables of the God of Love (with his alligator insignia flag) as they equally enchant the lotus-eyed damsels come to see You!
सुबन्तप्रक्रिया
आबद्ध-पङ्क्ति-महितानि= अ, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
तव= तव = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
त्रिधामन् = न्, पुं, १.१ सम्बोधनम्, सुँ, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यप्जकृतम् हल्, न ङिसम्बुद्ध्योः
वीध्राणि = अ, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, रषाभ्यां नो णः
हीर-शकलानि= अ, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
विभूषणेषु = अ नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
सम्मोहनानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
सरसीरुहलोचनानाम् = आ, स्त्री, ६.३, आम्, ह्रस्वनद्याओपो नुट्, नामि
मन्त्र-अक्षराणि=अ, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, रषाभ्यां नो णः
मकरध्वजस्य= अ, पुं, ६.१, ङस्, टाणासिण्गसामिनात्स्याः
तिङन्तप्रक्रिया
कलये= कल, चुरादि, उभयपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
आबद्ध-पङ्क्ति-महितानि=आबद्धा पङ्क्तिः, कर्मधारयः, तस्याः महितानि, षष्ठीतत्पुरुषः
त्रिधामन् = त्रीणि धामानि यस्य सः, हे त्रिधामन्
हीर-शकलानि= हीरं शकलम्, तानि कर्मधारयः
विभूषणेषु = विशिष्टं भूषणम्, तेषु, कर्मधारयः
सम्मोहनानि = सम्यक् मोहयति, उपपदसमासः
सरसीरुहलोचनानाम् = सरसीरुह इव लोचने, यस्याः सा, तेषम्, उपमानबहुव्रीहिः
मन्त्र-अक्षराणि=मन्त्रस्य अक्षरम्, तानि, षष्ठीतत्पुरुषः
मकरध्वजस्य= मकरेण चिन्हितो ध्वजो यस्य, तस्य