Saturday, December 16, 2023

Shloka 34 - Sri Varadarajastava


        Click on the image to open:



त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं भिन्द्युः किलेति तव भूषणपद्मरागाः ।
शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति तन्मात्रतोऽपि तव मुक्तिदतामबुद्ध्वा ॥३४॥
T: Oh, Śrī Varadarāja, granting liberation to all devout seekers, fearing that those devotees being liberated will be able to break through the barrier of the sun, sun's close associates, viz., the Padmarāga gemstones that glitter from Your ornaments, appear to be dispelling the eyes of those devotees by their dazzle! Alas, the gems hardly know that for those devotees, their mere glance at Your divine form and those very ornaments is sufficient for them to be granted by You their liberation!  

Explanation: The Vedic scriptures state that during the process of acquiring liberation, the seeker has to break through the orb of the sun (in other words, overcoming the physical universe and its bondage). As the Padmarāga gemstones glitter and dazzle with a red hue, the poet imagines them to be close friends of the sun. The gemstones, fearing that their dear friend the sun is about to be pierced by the devotees, attempt to blind the devotees' eyes with their dazzle, hindering their spiritual progress. However, the reality is that even if the devotee opens his eyes to gaze upon the sanctifying form of Śrī Varadarāja, the Lord is so pleased that He surely grants them liberation. This is not realised by those  Padmarāga gemstones, according to the poet.  The gatekeepers of a king stop anyone trying to enter for a meeting with the king. But when the gatekeepers are informed that the visitors are indeed under the grace of the king, they at once let them enter. This situation is similar as even a first glance at the Lord's form is enough for the devotee to be granted liberation and there is no doubt about it as per this stanza!
व्याकरणांशाः
मूलम्
त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं भिन्द्युः किलेति तव भूषणपद्मरागाः ।
शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति तन्मात्रतोऽपि तव मुक्तिदतामबुद्ध्वा ॥३४॥
पदच्चेदः
त्वाम्, वीक्ष्य, मुक्तिद, जनाः, तरणिम्, सखायम्, भिन्द्युः, किल, इति, तव, भूषण-पद्मरागाः, शङ्के, चिरम्, जनदृशः, स्वकरैः, क्षिपन्ति, तन्मात्रतः, अपि, तव, मुक्तिदताम्, अबुद्ध्वा
सन्धयः
त्वाम्, तरणिम्, सखायम्, चिरम् = मोऽनुस्वारः
जनाः, भिन्द्युः, भूषण-पद्मरागाः, जनदृशः, स्वकरैः, तन्मात्रतः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मुक्तिद ! त्वाम् वीक्ष्य जनाः सखायम् तरणिम् भिन्द्युः किल इति तव भूषण-पद्मरागाः तव तन्मात्रतः अपि मुक्तिदताम् अबुद्ध्वा चिरम् जनदृशः स्वकरैः क्षिपन्ति इति अह्ं शङ्के
Translation
Oh, Lord who grants liberation, thinking that their friend, the sun, shall be pierced by Your devotees in the process of their liberation, and in order to avert that, the red rubies studded in Your ornaments are dazzling the devotees' vision, not knowing that a mere glance is enough for Your grace to grant the devotees liberation, as I surmise!
सुबन्तप्रक्रिया
त्वाम् = युष्मद्, पुं, २.१, अम्, ङेप्रथमयोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्णे दीर्घः, अमि पूर्वः
मुक्तिद= अ, पुं, १.१, सम्बोधनम्, सुँ. एङ्ह्रस्वात् सम्बुद्धेः
जनाः, भूषण-पद्मरागाः= अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तरणिम्= इ, पुं, २.१, अम्, अमि पूर्वः
सखायम्= सखि, इ,पुं, २.१, अम्, सख्युरसम्बुद्धौ, अचो ञ्णिति, एचोऽयवायावः
किल, इति, चिरम्, तन्मात्रतः ( तसिल् तद्धितः), अपि = अव्ययम्
तव = युष्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
जनदृशः = श्, स्त्री, २.३, शस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्वकरैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरव्सानयोर्विसर्जनीयः
मुक्तिदताम् = आ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
भिन्द्युः = भिद्, रुधादि, उभयपदी, कर्तरि विधिलिङ्ग्, प्रथमपुरुषः, बहुवचनम्
शङ्के = शकिँ, भ्वादि, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
क्षिपन्ति = क्षिप्, तुदादि, उभयपदी, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
भूषणपद्मरागाः = भूषणानि पद्मरागाः एव, अवधारनाउत्तरपदम्, ते
जनानां दृशः = जनदृशः, ताः
स्वीयः करः= कर्मधारयः, तैः