Tuesday, December 26, 2023

Shloka 44 - Sri Varadarajastava



        Click on the image to open:
स्पर्शं ययोः समधिगम्य झटित्यहल्या देवी च भूरभवदुज्झितसर्वपङ्का ।
ताभ्यां घटेत समता भवतः पदाभ्याम् आजन्मपङ्कवसतेः कथमम्बुजस्य ॥४४॥
T: How do we reconcile this: After the touch of Bhagavan's feet, Ahalyā and Bhūdevī were completely cleansed of all sinin an instant. The very same feet are indeed being compared to lotuses, but the lotuses of the world are far from clean or cleansing, as they are always immersed in slush (punned as sin)!        
Explanation:  In His incarnation as Śrī Rāma, when the Lord stepped on the dormant petrified Ahalyā (the accursed wife of Riṣi Gautama), the mere touch of His feet instantly cleansed the lady of all her accumulated sin and released her from the curse. In His incarnation as Śrī Kṛṣṇa, His stepping on Earth (Bhūdevī) resulted in the entire earth being similarly cleansed. 

Now we are comparing the Lord's feet to earthly lotuses. The poet sees an irreconcilable contradiction here because lotuses remain forever in slush. The word पङ्क Paṅka means slush as well as sin. So they are themselves never cleansed, unlike the all-cleansing lotus feet of the Lord! This clever pun श्लेष Śleṣa is indulged in by the poet to extol the incomparable qualities of the Lord's lotus feet.

व्याकरणांशाः
मूलम्
स्पर्शं ययोः समधिगम्य झटित्यहल्या देवी च भूरभवदुज्झितसर्वपङ्का ।
ताभ्यां घटेत समता भवतः पदाभ्याम् आजन्मपङ्कवसतेः कथमम्बुजस्य ॥४४॥
पदच्चेदः
स्पर्शम्, ययोः, समधिगम्य, झटिति, अहल्या, देवी, च, भूः, अभवत्, उज्झित-सर्व-पङ्का, ताभ्याम्, घटेत, समता, भवतः, पदाभ्याम्, आजन्म-पङ्क-वसतेः, कथम्, अम्बुजस्य
सन्धयः
स्पर्शम्, ताभ्याम् = मोऽनुस्वारः
ययोः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
झटिति+अहल्या= इको यणचि
भूः+अभवत्= भूर्+अभवत्, वर्णमेलनमेव
भवत्+उज्झित=झलां जश् झशि
भवतः+पदाभ्याम्, वसतेः+कथम् = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क ≍पौ च
आकाङ्क्षा-अन्वयः
भवतः पदाभ्याम् ययोः स्पर्शम् समधिगम्य झटिति अहल्या देवी च भूः,अभवत्,उज्झित-सर्व-पङ्का, ताभ्याम् समता आजन्म-पङ्क-वसतेः अम्बुजस्य कथम् घटेत!?
Translation
Oh, Lord, by the mere coming in contact with Your feet, instantly Ahalyā and Bhūdevī were cleansed of the stupendous sin/slush they had been immersed in; those very feet now being shown as being equalled by the lotuses which are forever immersed and residing in slush - how can such a comparison be ever permitted to occur?
सुबन्तप्रक्रिया
स्पर्शम् = अ, पुं, २.१, अम्, अमि पूर्वः
ययोः= यद्, ६.२, ओस्, त्यदादीनामः, अतो गुणे, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
झटिति, च, कथम् = अव्ययम्
अहल्या,भूर-भवत्-उज्झित-सर्व-पङ्का, समता= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
देवी= ई, स्त्री,१.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
भूः= भुर्, ईस्त्री,१.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, र्वोरुपधायाः दीर्घ इकः, खरवसानयोर्विसर्जनीयः
ताभ्याम्= तद्, स्त्री, ३.२, भ्याम्, त्यदादीनामः, अतो गुणे, सुपि च
भवतः= त्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पदाभ्याम्= अ, नपुं, ३.२, भ्याम्, सुपि च
आजन्म-पङ्क-वसतेः= इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अम्बुजस्य= अ, नपुं, ६१. ङस्, टाङसिङसामिनात्स्याः
तिङन्तप्रक्रिया
अभवत् = भू, भ्वादि, परस्मैपदी, लङ्, प्रथमपुरुषः, एकवचनम्
घटेत= घट्, भ्वादिः, आत्मनेपदी, विधिलिङ्,प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
उज्झित-सर्व-पङ्का = सर्वं पङ्कम्, कर्मधारयः, उज्झितम् सर्वपङ्कम् यस्याः सा, पञ्चमी बहुव्रीहिः
आजन्म-पङ्क-वसतेः =आजन्म वसतिः (कर्मधारयः) पङ्के यस्य तद्, तस्य बहुव्रीहिः