Friday, December 29, 2023

Shloka 47 - Sri Varadarajastava



        Click on the image to open:


यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः पादाम्बुजद्वयमिषात् कमठाधिराजः।
मूले वसत्युचितमेव निगद्यते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥४७॥
T: Oh supreme Lord Śrī Varadarāja, beneath Your lotus feet, dwells the Lord Kūrma, Your incarnation as a tortoise, along with Devi Śrī Lakṣmī as His=Your consort in the form of  His potent energy.  The greatness of Kūrma's potent energy is well known (as He lifted Mandara during the churning of the Milky Ocean!
This establishes that the bottom of Your feet is the lowest point in creation, as Your form comprises all the universe of creation, as stated in the Purāṇās.  

Explanation: The Purāṇās declare: पातालमेवास्य हि पादमूलम् (the Nether region is the bottom of the Lord's feet). There dwells Lord Kūrma, along with Devi Śrī Lakṣmī as His consort. This is also the depiction of Lord Śrī Varadarāja in the temple and His lotus feet therefore represent Kūrma. So, when we see the image of Lord Śrī Varadarāja, the poet reminds us that this is the Universal Form as stated in the scriptures to hold within itself all the regions up to the bottom most one.  This figure of speech is कृतवापह्नुति Kṛtavāpahnuti.

व्याकरणांशाः
मूलम्
यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः पादाम्बुजद्वयमिषात् कमठाधिराजः।
मूले वसत्युचितमेव निगद्यते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥४७॥
पदच्चेदः
यस्याः,स्व-मूर्ति+अनुगुण-आकृति-शक्ति-युक्तः पाद-अम्बुअद्वय-मिषात्, कमठ-अधिराजः, मूले, वसति, उचितम्,एव, निगद्यते, सा, मूर्तिः, महा-पुरुष, ते, अखिल-लोक-रूपा
सन्धयः
यस्याः+स्वमूर्तिः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि
मूर्ति+अनुगुण, वसति+उचित=इको यणचि
अनुगुण+आकृति, पाद+अम्बुज, कमठ+अधिराजः= अकः सवर्णे दीर्घः
शक्ति-युक्तः+पाद= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क ≍पौ च
अधिराजः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मूर्तिः+महापुरुष= ससजुषो रुः
ते+अखिललोकरूपा=एङः पदान्तादति
आकाङ्क्षा-अन्वयः
महा-पुरुष! कमठ-अधिराजः यस्याः मूले स्व-मूर्ति-अनुगुण-आकृति-शक्ति-युक्तः पाद-अम्बुज-द्वय-मिषात् वसति सा मूर्तिः ते अखिल-लोक-रूपा उचितम् एव निगद्यते
Translation
Oh, Supreme Being! The Lord Kūrma, by emulating Your lotus feet and displaying all the glorious attributes of Your Universal form (as Your incarnation), dwells as and in Your lotus feet, it is fitting that Your form is described as the Universal form of creation!
सुबन्तप्रक्रिया
यस्याः =यद्+अस्=य अ+अस्=य+अस्=य+आ+अस्=या+अस्=य+स्या+अस्=यस्यास्=यस्यार्=यस्याः यद्, स्त्री, ६.१, ङस्, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, सर्वनाम्नः स्याड्ढ्रस्वश्च, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्व-मूर्ति+अनुगुण-आकृति-शक्ति-युक्तः, कमठ-अधिराजः=अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पाद-अम्बुज-द्वय-मिषात्= अ, पुं, ५१., ङसि, टा ङसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः
सा=तद्+स्=त अ+स्=त+स्=त+आ+स्=ता+स्=सा+स्=सा=तद्, स्त्री, १.१, सुँ, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, तदोः सः सावनन्त्ययोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
मूले = अ, नपुं, ७.१, ङि, आद्गुणः
उचितम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
एव= अव्ययम्
मूर्तिः= इ, स्त्री,१.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
महा-पुरुष= अ, पुं, १.१, सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
ते= युष्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य अन्वादेशे
अखिल-लोक-रूपा= आ, स्त्री,१.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तिङन्तप्रक्रिया
निगद्यते= नि+गद्, कर्मणि, लट्, भ्वादि, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
स्व-मूर्ति+अनुगुण-आकृति-शक्ति-युक्तः = आकृत्या च शक्त्या च युक्तः= ३.तत्पुरुष, स्वस्य मूर्तिः ६तत् मूर्तेः अनुगुणम् ६ तत्
पाद-अम्बुजद्वय-मिषात्= पादम् अम्बुजमिव कर्मधारय, पादाम्बुजयोः द्वयम् ६तत्, तस्य मिषः ६तत्, तस्मात्
कमठ-अधिराजः= कमठानाम् अधिराजः (प्रादि तत्)=६तत्
महा-पुरुष= महान् पुरुषः, तस्य सम्बोधनम् कर्मधारयः
अखिल-लोक-रूपा= अखिलः लोकः कर्मधारयः, तस्य रूपा= ६तत्