Saturday, December 9, 2023

Shloka 27 - Sri Varadarajastava


        Click on the image to open:

युक्त्यागमेन च भवाञ्शशिवर्ण एव निष्कृष्टसत्त्वगुणमात्रविवर्तमूर्तिः ।
धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं शुभ्रोऽपि साम्बुरसितः खलु दृश्यतेऽब्दः ॥
T: Oh, Lord Śrī Varadarāja, You are in the form materialised only out of the pure Sattva Guṇa. Thus, according to Your intention, and also in conformity with the declarations of the Purāṇas, Your form is white like the moon. But the water called Karuṇā (compassion) has filled up Your form, and thus Your form appears to have a bluish glow. Indeed, does not the cloud, albeit purely white in its essence, appear dark when filled with water!?

Explanation:  The essential nature of Bhagavān MahāViṣṇu is the pure Sattva Guṇa described as white in colour. This is supported by the statements in some Purāṇas. We can recall here the Śloka, शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्वभुजम् ... (Mahā Viṣṇu, wearing white garments, and appearing white like the moon, sporting four hands...). But then, how come Lord Viṣṇu is well known as नील-मेघ-श्याम (dark like the blue raincloud)? The reason is that He is filled with the water-like quality of compassion कारुण्यम्, explains the poet here. The cloud by itself is white as seen in its pure form. But when it is laden with rainwater, it appears dark. This comparison explains the appearance of the Lord Śrī Varadarāja!   This figure of speech is दृष्टालङ्कार Dṛṣṭālaṅkāra

व्याकरणांशाः
मूलम्
युक्त्यागमेन च भवाञ्शशिवर्ण एव निष्कृष्टसत्त्वगुणमात्रविवर्तमूर्तिः ।
धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं शुभ्रोऽपि साम्बुरसितः खलु दृश्यतेऽब्दः ॥
पदच्चेदः
युक्त्या, आगमेन, च, भवान्, शशिवर्णः, एव, निष्कृष्ट-सत्त्व-गुण-मात्र-विवर्त-मूर्तिः, धत्ते,
कृपा-अम्बुभरत:, त्विषम्, ऐन्द्रनीलीम्, शुभ्रः, अपि, स- अम्बु-रसितः, खलु, दृश्यते, अब्दः
सन्धयः
युक्त्या+आगमेन, कृपा+अम्बु, स+अम्बु = अकः सवर्णे दीर्घः
भवान्+शशिवर्णः = श्चुत्वसन्धिः
शशिवर्ण = ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
मूर्तिः, रसितः, अब्दः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भरतः+त्विषम् = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
शुभ्रः+अपि, दृश्यते+अब्दः= ससजुषो रुः, अतोरोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
आकाङ्क्षा-अन्वयः
भवान् युक्ति-आगमेन च शशिवर्णः निष्कृष्ट-सत्त्व-गुण-मात्र-विवर्त-मूर्तिः एव। कृपा-अम्बुभरतः
ऐन्द्रनीलीम् त्विषम् धत्ते ! शुभ्रः अपि स- अम्बु-रसितः अब्दः दृश्यते खलु !
Oh, Lord Śrī Varadarāja, by Your intention and design, also as stated
in the scriptures, You are white like the moon, Your form is
made up of the white-coloured Sattva Guṇa. (But) filling Yourself up
with the water-like flowing compassion, You sport a blue gem-like
 dark colour! (We can understand this because) indeed,
even though white within, does not the cloud, laden with rainwater,
appear dark in colour!?!
सुबन्तप्रक्रिया
युक्त्या - इ, स्त्री, ३.१, टा, इको यणचि
आगमेन, अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
च, एव, अपि, खलु = अव्ययम्
भवान् - त्, पुं, १.१, सुँ, अत्वन्तस्य चाधातोः, उगिदचां सर्वनामस्थानेऽधातोः,
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
शशिवर्णः, कृपा-अम्बुभरतः, स- अम्बु-रसितः, शुभ्रः, अब्दः- अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
निष्कृष्ट-सत्त्व-गुण-मात्र-विवर्त-मूर्तिः, इ, स्त्री, १.१, सुँ, ससजुषो रुः,
खरवसानयोर्विसर्जनीयः
त्विषम् - ष्, स्त्री, २.१, अम्, वर्णमेलनम्
ऐन्द्रनीलीम् - ई, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
धत्ते, धा, जुहोत्यादिः, उभयपदी, लट्, प्रथमपुरुषः, एकवचनम्
दृश्यते - दृश्, भ्वादिः, परस्मैपदी, कर्मणी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
शशिवर्णः = शशेः वर्णः इव वर्णः यस्य सः - बहुव्रीहिः
सत्त्व इति गुणः, सम्भावनापूर्वपद कर्मधारयः, निकृष्टः सत्त्वगुणः, विशेषणपूर्वपदकर्मधारयः, गुणस्य मात्रम्, षष्ठीतत्पुरुषः, मात्रेण विवर्तः, तृतीयातत्पुरुषः, विवर्तः मूर्तिः कर्मधारयः
कृपा एव अम्बुः, अवधारणकर्मधारयः, अम्बुं बिभर्ति स्वाङे, कृपाम्बुभरतः
इन्द्रस्य इयम् ऐन्द्रीम्, ऐन्द्री नीली, ऐन्द्रनीली, ताम्
अम्बुना सह रसितः, तृतीयातत्पुरुषः
आपं ददादि इति अब्दः - केवलसमासः