व्याकरणांशाः |
मूलम् | | | | |
लेखाधिनाथवनपल्लवधैर्यचोरे रेखामयं पदतले कमलं यदेतत् । |
तत्रैव विश्रमजुषोऽच्युत रागलक्ष्म्याः क्रीडानिशान्तकमलं तदिति प्रतीमः ॥४६॥ |
पदच्चेदः | | | | | |
लेखाधिनाथ-वनपल्लव-धैर्य-चोरे, रेखा-मयम्, पद-तले, कमलम्, यत्,एतत् तत्र,एव विश्रमजुषः,अच्युत, राग-लक्ष्म्याः, क्रीडा-निशान्त-कमलम्, तत्, इति, प्रतीमः |
सन्धयः | | | | | |
रेखा-मयम्, कमलम्, क्रीडा-निशान्त-कमलम् = मोऽनुस्वारः |
यत्+एतत्, तत्+इति= झलां जशोऽन्ते |
राग-लक्ष्म्याः+क्रीडा-निशान्त-कमलम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क ≍पौ च |
तत्र+एव=वृद्धिरादैच् |
विश्रमजुषः+अच्युत=ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति |
प्रतीमः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
आकाङ्क्षा-अन्वयः | | | | |
अच्युत ! यत् लेखाधिनाथ-वनपल्लव-धैर्य-चोरे एतत् रेखा-मयम् पद-तले कमलम् तत्र एव क्रीडा-निशान्त-कमलम् रा रग-लक्ष्म्याः तत् विश्रमजुषः इति प्रतीमः
|
Translation | | | | |
Oh, Lord Acyuta! By usurping/emulating the radiance of the tender shoots in Lord Indra's celestial garden full of wish-fulfilling trees, we infer that the lotus marks on Your radiant feet have now qualified themselves to be the preferred residence of Devi Śrī Lakṣmī, known to prefer the lotus for her abode! |
सुबन्तप्रक्रिया | | | | |
लेखाधिनाथ-वनपल्लव-धैर्य-चोरे = अ, पुं, ७.१, ङि, आद्गुणः |
रेखा-मयम्, कमलम्, क्रीडा-निशान्त-कमलम् = अ नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
पद-तले=अ, नपुं, ७.१, ङि, आद्गुणः |
यत्, एतत्, तत् = यद्/एतद् सर्वनाम, नपुं, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, झलां जशोऽन्ते, वाऽवसाने |
तत्र,एव, इति = अव्ययम् |
विश्रमजुषः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
अच्युत = अ, पुं, १.१, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः |
राग-लक्ष्म्याः= ई, स्त्री, ६.१, ङस्, आण्नद्याः, आटश्च, इको यणचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
तिङन्तप्रक्रिया | | | | |
प्रतीमः= प्रति+इ, अदादि, परस्मैपदी, लट्, उत्तमपुरुषः, बहुवचनम् |
समासाः, तद्धिताः, कृदन्ताः | | | |
लेखाधिनाथ-वनपल्लव-धैर्य-चोरे = लेखायाः अधिनाथः षष्ठीतत्पुरुषः, तस्य वनम्, षष्ठीतत्पुरुषः, वनस्य पल्लवम्, षष्ठीतत्पुरुषः, तस्य धैर्यम् (सौन्दर्यम्), षष्ठीतत्पुरुषः, तस्य चोरः षष्ठीतत्पुरुषः, तस्मिन् |
रेखा-मयम् = रेखेन पूरितम्, तृतीयातत्पुरुषः |
क्रीडा-निशान्त-कमलम् = क्रीडायाः निशान्तम्,षष्ठीतत्पुरुषः, निशान्तम् एव कमलम् = अवधारणपूर्वपदकर्मधारयः |
विश्रमजुषः = विश्रमस्य जुषः = षष्ठीतत्पुरुषः |
राग-लक्ष्म्याः= रागस्य लक्ष्मीः, तस्याः, षष्ठीतत्पुरुषः |