Sunday, December 17, 2023

Shloka 35 - Sri Varadarajastava


        Click on the image to open:



पादवुपेन्द्र सुकुमारतमाविमौ ते भूषाभरादरुणिमानमिवोद्गिरन्तौ ।
इत्थं किमस्ति सुकुमारमितीव बोद्धुं लोकत्रयेऽपि च करैः स्पृशतः पदार्थान् ॥३५॥
T: Oh, Śrī Varadarāja, also addressed as Upendra, Your feet are most delicate. Perhaps unable to bear the weight of those ornaments, they appear reddened. not only that, these beautiful red feet seem to be exploring the three worlds to find out if anything is softer and more delicate than them, and we can see their rays of grace coming and touching everything and everyone! 

Explanation: In one of His Avatāras, Bhagavān Viṣṇu appeared as the younger brother of Indra (when he was born as Vāmana to Aditi and Kaśyapa) and thus He is also addressed as Upendra. The अमरकोशः states उपेन्द्र इन्द्रावरजः चक्रपाणिश्चतुर्भुजः while listing the epithets of Lord  Viṣṇu. The feet of Lord Śrī Varadarāja appear red, soft and have a glow. Keeping this fact in mind, the poet says here that with their reddish rays, the feet are touching all creation as if exploring to find if anything or anyone is softer than them! In this Utprekṣā, he is punning on the word कर Kara which means both kiraṇa i.e. rays of llight as well as hands. Just as one touches everything by hand to see how soft it is, the rays of glow from the Lord's feet are also touching everything, ostensibly to find out how soft it is! This figure of speech is फलोत्प्रेक्षालङ्कार Phalotprekṣālaṅkāra.

व्याकरणांशाः
मूलम्
पादवुपेन्द्र सुकुमारतमाविमौ ते भूषाभरादरुणिमानमिवोद्गिरन्तौ ।
इत्थं किमस्ति सुकुमारमितीव बोद्धुं लोकत्रयेऽपि च करैः स्पृशतः पदार्थान् ॥३५॥
पदच्चेदः
पादौ, उपेन्द्र, सुकुमारतमौ, इमौ, ते, भूषाभरात्, अरुणिमानम्, इव,उद्गिरन्तौ, इत्थम्, किम्,अस्ति, सुकुमारम्, इति, इव, बोद्धुम्, लोकत्रये, अपि, च, करैः, स्पृशतः, पदार्थान्
सन्धयः
पादौ+उपेन्द्र, सुकुमारतमौ+इमौ= एचोऽयवायावः
भूषाभरात्+अरुणिमानम्= झलां जशोऽन्ते
इव+उद्गिरन्तौ = आद्गुणः
इत्थम्, बोद्धुम्= मोऽनुस्वारः
इति+इव= अकः सवर्णे दीर्घः
लोकत्रये+अपि=एङः पदान्तादति
करैः, स्पृशतः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
उपेन्द्र इमौ ते सुकुमारतमौ पादौ भूषाभरात् अरुणिमानम् इव उद्गिरन्तौ इत्थम् सुकुमारम् किम् अस्ति इति बोद्धुम् इव लोकत्रये अपि च करैः पदार्थान् स्पृशतः
Translation
Oh, Upendra, these most tender feet of Yours, under the burden of Your ornaments, are exuding a red hue, and as if to discover if anything else is as soft as they are, are touching with their glow all objects in the three worlds.
सुबन्तप्रक्रिया
पादौ, सुकुमारतमौ = अ, पुं, १.२, औ, प्वृर्द्धत्दैथ्चमयोः पूर्वसवर्णः, नादिचि, वृद्धिरेचि
उपेन्द्र = अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
इमौ = इदम्, सर्वनाम, पुं, १.२, औ, त्यदादीनामः, अतो गुणे, दश्च, वृद्धिरेचि
ते= युष्मद्, पुं, ६.१, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, तेमयावेकवचनस्य
भूषाभरात् = अ, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
अरुणिमानम्, सुकुमारम्= अ, पुं, २.१, अम्, अमि पूर्वः
इव, किम्, इति, अपि, च, इत्थम्= अव्ययम्
उद्गिरन्तौ= त्, पुं, १.२, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः
लोकत्रये = अ, नपुं, ७.१, ङिँ, आद्गुणः
करैः =अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पदार्थान् = अ, पुं, २.३, शस्, प्रथमयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि, पदान्तस्य
तिङन्तप्रक्रिया
स्पृशतः= तुदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, द्विवचनम्
समासाः, तद्धिताः, कृदन्ताः
उप इन्द्रः = प्रादिसमासः
सुष्टु कुमारः, सुकुमारः कर्मधारयः, सुकुमारतम (तद्धित) तौ
भूषायाः भरः षष्ठीतत्पुरुषः, तस्मात्
त्रयाणां लोकानां समाहारः, तस्मिन्, द्विगुसनासः