Saturday, December 23, 2023

Shloka 41 - Sri Varadarajastava




        Click on the image to open:


तौल्यं वदन्तु कवयस्तरुपल्लवानां मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः ।
तान्येव तत्तदधरोष्ठमिषात्तदानीं कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥४१॥
T: Oh, Mukunda, i.e. Lord Śrī Varadarāja, some ignorant poets may attempt to compare tender shoots of creepers to Your feet.  So what!? Those very tender shoots, knowing well how they are not worthy of being compared to Your feet, become the lips of people and constantly quiver, pretty much disclosing how they are quite inferior to Your feet in their tenderness or beauty!                               
Explanation: It is quite common for poets to compare tender and delicate feet to the tender shoots of creepers.  The reason is the similar redness and softness. Therefore, some foolhardy poets do make that comparison, but the poet here rejects the simile. Those very tender shoots know the fact that they cannot be equated to the Lord's feet! We can sense this when we see those shoots take the shape of people's lips. The lips quiver during speech, a sure sign of expressing their inferiority and unworthiness for this comparison! The usage by the poet of the expression अधरोष्ठमिषात् Adharoṣṭhamiṣāt is a figure of speech called व्याज्यापह्नुति Vyājyāpahnuti.

व्याकरणांशाः
मूलम्
तौल्यं वदन्तु कवयस्तरुपल्लवानां मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः ।
तान्येव तत्तदधरोष्ठमिषात्तदानीं कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥४१॥
पदच्चेदः
तौल्यम्, वदन्तु, कवयः, तरुपल्लवानाम्, मुग्धाः, त्वदीयचरणेन, मुकुन्द, किम्, तैः, तानि, एव, तत्तत्, अधरोष्ठ-मिषात्, तदानीम्, कम्पम्, भजन्ति, कथयन्ति, किल, आत्म-नैच्यम्
सन्धयः
तौल्यम्,तरुपल्लवानाम्, किम्, तदानीम्, कम्पम्= मोऽनुस्वारः
कवयः+तरु, मुग्धाः+त्वदीय= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
तानि+एव= इको यणचि
तत्तत्+अधरोष्ठ=झलां जशोऽन्ते
किल+आत्म=अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
मुकुन्द! मुग्धाः कवयः तरुपल्लवानाम् त्वदीयचरणेन तौल्यम् वदन्तु, किम् तैः? तानि एव तत्तत् अधरोष्ठ-मिषात् तदानीम् कम्पम् भजन्ति, आत्म-नैच्यम् कथयन्ति किल
Translation
Oh, Mukunda! Ignorant poets may attempt to compare tender creeper shoots to Your feet, so what!? Those very tender shoots appearing as peoples' lips, quiver and declare that they are inferior, is it not!?
सुबन्तप्रक्रिया
तौल्यम्, आत्म-नैच्यम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
कवयः = इ, पुं, १.३, जस्, जसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तरुपल्लवानाम्= अ, नपुं, ६.३, आम्, ह्रस्वनद्याओपो नुट्, नामि
मुग्धाः= अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वदीयचरणेन= अ, नपुं, ३.१, टा, टाण्गसिण्गसामिनात्स्याः, आद्गुणः
मुकुन्द= अ, पुं, 1.1, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
किम् = म्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
कथयन्ति = कथ
तानि=तद्, १.३, जस्, त्यदादीनामः, अतो गुणे, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
एव, तदानीम्, किल= अव्ययम्
तत्तत् = तद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
अधरोष्ठ-मिषात्= अ, नपुं, ५.१, ङसिँ, टाङसिण्गसामिनात्स्याः, आद्गुणः
कम्पम् = अ, पुं, २.१, अम्, अमि पूर्वः
आत्मनैच्यम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
भजन्ति = भज्, भ्वादि,उभयपदी, लट्, प्रथमपुरुषः, बहुवचनम्
कथयन्ति= कथ, चुरादि, उभयपदी, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
तरुपल्लवानाम्= तरोः पल्लवानि, तेषाम्, षष्ठीतत्पुरुषः,
त्वदीयचरणेन = त्वदीयं चरणम्, तेन, षष्ठीतत्पुरुषः
अधरोष्ठ-मिषात् = अधरोष्ठस्य मिषम्, तस्मात्, षष्ठीतत्पुरुषः
आत्म-नैच्यम् = निचस्य भावः, नैच्यम् (तद्धितः), आत्मनः नैच्यम्, तत्, षष्ठीतत्पुरुषः