Thursday, December 7, 2023

Shloka 25 - Sri Varadarajastava


        Click on the image to open:

सारस्वतं वदनपद्मभुवं प्रवाहं त्रैस्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात् प्रवहन्त्यजस्रम् ईर्ष्यावतीश यमुना किमु कायकान्तिः ॥२५॥
T: Oh, Lord Śrī Varadarāja, from Your lotus face emanates the flood of the river Sarasvatī, and from Your feet emanates the flood of the river Gaṅgā. Seeing them out of intolerance, the river Yamunā seems to have decided to flood Your body as a divine glow! Is that so? 

Explanation:  The rivers Gaṅgā, Yamunā and Sarasvatī have their famous confluence in Prayāga. Among these, the Gaṅgā is said in the Purāṇas to be originating from the feet of the Paramātmā, Lord Mahā Viṣṇu. From the face of the Paramātmā, Lord Mahā Viṣṇu, emanates speech or the river Sarasvatī, its presiding deity. So both the Gaṅgā and the Sarasvatī have found their places in the Lord's form. The river Yamunā is thus jealous as she did not find a place in the Lord's form originally. Therefore, now, she suffuses the entire body of the Lord, Śrī Varadarāja, in the form of a divine glow. This is the Utprekṣā figure of speech used by the poet.  There is a poetic notion that the river Yamunā is of a dark complexion. Since the Lord, Śrī Varadarāja, is also of a cloud-like dark complexion, it is a fitting comparison of His body to the flow of the Yamunā. That is the poetic allusion here.

व्याकरणांशाः
मूलम्
सारस्वतं वदनपद्मभुवं प्रवाहं त्रैस्रोतसं च तव पादभुवं निरीक्ष्य ।
सर्वप्रतीकनिकरात् प्रवहन्त्यजस्रम् ईर्ष्यावतीश यमुना किमु कायकान्तिः ॥२५॥
पदच्चेदः
सारस्वतम्, वदन-पद्म-भुवम्, प्रवाहम्, त्रै-स्रोतसम्, च, तव, पादभुवम्, निरीक्ष्य, सर्व-प्रतीक-निकरात्, ,प्रवहन्ती, अजस्रम्, ईर्ष्यावती, ईश, यमुना, किमु, काय-कान्तिः
सन्धयः
सारस्वतम्, वदन-पद्म-भुवम्, प्रवाहम्, त्रै-स्रोतसम्, पादभुवम् = मोऽनुस्वारः
प्रवहन्ती + अजस्रम् = इको यणचि
ईर्ष्यावती+ ईश = अकः सवर्णे दीर्घः
काय-कान्तिः = ससजुषो रुः, खरवसानयोर्विसर्हनीयः
आकाङ्क्षा-अन्वयः
ईश! तव वदन-पद्म-भुवम् सारस्वतम् प्रवाहम्,पादभुवम् त्रै-स्रोतसम् च निरीक्ष्य, ईर्ष्यावती यमुना सर्व-प्रतीक-निकरात् अजस्रम् प्रवहन्ती। किमु काय-कान्तिः
Oh, Lord Śrī Varadarāja, from Your lotus face rises and flows Sarasvatī, the river (goddess) of speech. And from Your feet rises and flows the river Gaṅgā, who sanctifies the three worlds. Seeing this, out of jealousy, the river Yamunā, known for her great beauty and dark complexion, has now occupied and incessantly fills Your entire body. That explains its great glow!
सुबन्तप्रक्रिया
सारस्वतम्,वदन-पद्म-भुवम्, प्रवाहम्, त्रै-स्रोतसम्, पादभुवम्= अ, पुं, २.१, अम्, अमि पूर्वः
सारस्वतम्,वदन-पद्म-भुवम्, पादभुवम्= अ, पुं, २.१, अम्,अचि श्नुधातुभ्रुवां य्वओरियङुवङौ
च, किमु, अजस्रम्= अव्ययम्
तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ण्गसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
सर्व-प्रतीक-निकरात् = अ, पुं, ५.१, ङसि, टाङसिण्गसंइनात्स्याः, अकः सवर्णे दीर्घः
प्रवहन्ती, ईर्ष्यावती = ई स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
ईश = अ पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
यमुना =आ, स्त्री, १.१, सुँ. हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
काय-कान्तिः = इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
सरस्वत्याः सः, तद्धितः तम्
त्रिलोकस्य स्रोतः = षष्ठीतत्पुरुषः
वदनं पद्ममिव, कर्मधारयः, तस्मात् भूः, तम् = पञ्चमीतत्पुरुषः
पादात् भूः, तम् = पञ्चमीतत्पुरुषः
सर्वः प्रतीकः कर्मधरयः, तस्य निकरः , षष्ठीतत्पुरुषः
कायस्य कान्तिः = षष्ठीतत्पुरुषः