Wednesday, December 13, 2023

Shloka 31 - Sri Varadarajastava


        Click on the image to open:


शृङ्गीसुवर्णरुचिपिञ्जरितैकभागान्यङ्गेषु देव तव भूषणमौक्तिकानि।
प्रत्यक्षयन्ति भवतः प्रतिरोमकूपविश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥३१॥
T: Oh, Śrī Varadarāja, the pearls embedded in the purest, brilliant gold ornaments on Your body reflect their yellow-red lustre and give us a glimpse of the multitude of universes which are hidden in each of Your hair pores in their full glory!

Explanation: In each of the hair pores of the Supreme Lord's body is hidden a universe (ब्रह्माण्ड). That's why He is extolled as Akhilāṇḍa-Koṭi-Brahmāṇḍa-Nāyaka - the Supreme Lord of all the multitude of universes. 

Here, in Lord Śrī Varadarāja's divine, auspicious form, a multitude of pearls are embedded in the various golden ornaments. The pearls are naturally white but now they are shining in a mix of white-yellow-red golden hues, reflecting the light and colour of their surrounding decorations. ते चाण्डकापाले रजतं च सुवर्णं चाभवताम् । तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौः ... this Vedic assertion has been kept in mind by the poet while composing this stanza.

व्याकरणांशाः
मूलम्
शृङ्गीसुवर्णरुचिपिञ्जरितैकभागान्यङ्गेषु देव तव भूषणमौक्तिकानि।
प्रत्यक्षयन्ति भवतः प्रतिरोमकूपविश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥३१॥
पदच्चेदः
शृङ्गी-सुवर्ण-रुचि-पिञ्जरित-एक-भागानि, अङ्गेषु, देव, तव, भूषण-मौक्तिकानि,प्रत्यक्षयन्ति, भवतः, प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्- अण्ड-सहस्र-शोभाम्
सन्धयः
पिञ्जरित+एक =वृद्धिरेचि
भागानि+अङ्गेषु=इको यणचि
प्रति+अक्षयन्ति=इको यणचि
भवतः= ससजुषो रूः, खरवसानयोर्विसर्जनीयः
जगत्+अण्ड= झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
देव! तव अङ्गेषु शृङ्गी-सुवर्ण-रुचि-पिञ्जरित-एक-भागानि भूषण-मौक्तिकानि भवतः प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्- अण्ड-सहस्र-शोभाम् प्रत्यक्षयन्ति
Oh, Lord! the pearls embedded and thus forming a part of the various purest gold ornaments on Your body reflect the white-yello-gold admixture of their hues and reveal Your glory as the mutitude of universes that reside in each of Your hair pores!
सुबन्तप्रक्रिया
शृङ्गी-सुवर्ण-रुचि-पिञ्जरित-एक-भागानि-अङ्गेषु = अ नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
देव= अ, पुं, १.१ सम्बोधनम्, सुँ. एङ्ह्रस्वात्सम्बुद्धेः
तव = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
भूषण-मौक्तिकानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
भवतः= त्, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्गविसर्जनीयः
प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्- अण्ड-सहस्र-शोभाम्, आ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
प्रत्यक्षयन्ति= प्र+अक्ष्, भ्वादि, परस्मैपदी, णिजन्ते, लट्, प्रथपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
शृङ्गी-सुवर्ण-रुचि-पिञ्जरित-एक-भागानि-अङ्गेषु = शृङ्गी च सुवर्णं च, द्वन्द्वः, शृङ्गीसुवर्णमिव रुचिः पिञ्जरितः, उपमानकर्मधारयः, तस्य एकभागानि षष्ठीतत्पुरुषः
भूषण-मौक्तिकानि = भूषणस्य मौक्तिकानि, षष्ठीतत्पुरुषः
प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्- अण्ड-सहस्र-शोभाम्= रोमस्य कूपः. षष्ठीतत्पुरुषः, रोमकूपः, रोपकूपः, प्रतिरोमकूपम् अव्ययीभावः, तस्मिन् विश्रान्तम् सप्तमीतत्पुरुषः, विश्रान्तं सान्द्रं जगत् कर्मधारयः, तस्य अण्डं सहस्रम् (कर्मधारयः), षष्ठीतत्पुरुषः, तस्य शोभा, षष्ठीतत्पुरुषः, ताम्