Wednesday, December 20, 2023

Shloka 38 - Sri Varadarajastava




        Click on the image to open:
मुष्णन् प्रभातसमयेषु मुरान्तकारिन् अङ्घ्रिद्वयश्रियमहस्करतस्करस्ते।
यत्प्राप्यते न करभङ्गममुष्य बालमित्रत्वमेव मिषति ध्रुवमत्र हेतुः॥३८॥
T: Oh, Lord Śrī Varadarāja, also known as Murāri, at dawn, a thief called the sun comes and steals the golden-red glow of Your feet! But I see that his hands(=rays) are not cut off as punishment (per the medieval punishment for theft)! The only explanation can be that the sun is your childhood friend.

Explanation:  At dawn, as he rises, the sun is golden red. The poet surmises that this sun has stolen the golden reddish hue of the feet of Lord Śrī Varadarāja! The word kara (कर), as we have seen earlier also, means both rays of light as well as hands. Now if someone is a habitual thief with daily acts of stealing like this, the medieval punishment would be that his hands are cut off. Why has this punishment not been meted out? The explanation is that the sun is a Bālamitra (बालमित्र). Here again, the poet is punning on the word. The early morning sun and a childhood friend are both called Bālamitra. Noble souls do not punish either childhood buddies or friends in general. So, the poet imagines that the sun has not been punished in this case by the Lord for that very reason (Hetu). This figure of speech is Hetūtprekṣā (हेतूत्प्रेक्षा).  

व्याकरणांशाः
मूलम्
मुष्णन् प्रभातसमयेषु मुरान्तकारिन् अङ्घ्रिद्वयश्रियमहस्करतस्करस्ते।
यत्प्राप्यते न करभङ्गममुष्य बालमित्रत्वमेव मिषति ध्रुवमत्र हेतुः॥३८॥
पदच्चेदः
मुष्णन्, प्रभात-समयेषु, मुरा-अन्त-कारिन्, अङ्घ्रि-द्वय-श्रियम्, अहस्कर-तस्करः, ते, यत्, प्राप्यते, न, कर-भङ्गम्, अमुष्य-बाल-मित्रत्वम्, एव, मिषति, ध्रुवम्, अत्र हेतुः
सन्धयः
अहः+कर, तस्करः+ते= ससजुषो रुः, खरवसानतयोर्विसर्जनीयः, विसर्जनीयस्य सः
हेतुः=ससजुषो रुः, खरवसानतयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मुरा-अन्त-कारिन् ! प्रभात-समयेषु ते अङ्घ्रि-द्वय-श्रियम् अहस्कर-तस्करः मुष्णन् यत् कर-भङ्गम् न प्राप्यते, ध्रुवम् अत्र हेतुः अमुष्य-बाल-मित्रत्वम् एव मिषति
Translation
Oh, Murāri, At dawn, the rising sun seems a theif who has stolen the reddish golden light of Your feet. That his hands/rays have not been cut off can be explained only by saying he is considered as Your childhood friend and hence pardoned!
सुबन्तप्रक्रिया
मुष्णन् = त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
प्रभात-समयेषु= अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
मुरा-अन्त-कारिन्= न्, पुं, १.१ सम्बोधनम्, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः, न ङीसम्बुद्ध्योः
अङ्घ्रि-द्वय-श्रियम्= ई, स्त्री, अम्, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ
अहस्करः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तस्करः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ते = युष्मद्, पुं, ६.१, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, तेमयावेकवचनस्य
यत्, न, ध्रुवम्, एव, अत्र = अव्ययम्
कर-भङ्गम् = अ, पुं, २.१, अम्, अमि पूर्वः
अमुष्य-बाल-मित्रत्वम्= अ, नपुं, १.१, अम्, अतोऽम्
हेतुः= उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
मिषति = मिष्, भ्वादि, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
प्राप्यते= प्र+आप्, स्वादि, कर्मणि, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
मुरा-अन्त-कारिन्= , मुरः अन्तं करोति -उपपदस्मासः
अङ्घ्रि-द्वय-श्रियम्= अङ्घ्रेः द्वयोः समाहारः, द्विगुः, तस्य श्रीः, ताम् = षष्ठीतत्पुरुषः
अहस्कर-तस्करः= अहः करोति, उपपदसमासः तस्करः = तत् करोति, उपपदसमासः
कर-भङ्गम् = करस्य भङ्गम् षष्ठीतत्पुरुषः
अमुष्य-बाल-मित्रत्वम्= , बालानां मित्रत्वम् = षष्ठीतत्पुरुषः,अमुष्यं, बाल-मित्रत्वम् = कर्मधारयः