Wednesday, December 6, 2023

Shloka 24 - Sri Varadarajastava



        Click on the image to open:

लावण्यसागरभुवि प्रणयं विशेषाद् दुग्धाम्बुराशिदुहितुस्तव तर्कयामि ।
यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मीम् अन्यां तु केवलमधोक्षज वक्षसैव ॥२४॥
T: Oh, Lord Śrī Varadarāja, also known as Adhókṣaja (perceived only with eyes turned inward), compared to Your divine consort Śrī Lakṣmī arisen out of the Milky Ocean, there is another Śrī Lakṣmī, arising out of the ocean of beauty and charm as the divine glow of light, who seems to be Your favourite! I say this because You hold the Śrī Lakṣmī of glow all over Your body whereas You enshrine the first Śrī Lakṣmī  only on Your chest! 

Explanation:  The word Lakṣmī connotes not only that divine maiden arisen out of the Milky Ocean during its churning, but also a divine glow.  Lord Śrī Varadarāja, or Bhagavān Viṣṇu, famously accepted the goddess Lakṣmī at the time of her rise from the Milky Ocean as his divine consort, and enshrined her forever on his chest. It is also seen here in Kāncī that Lord Śrī Varadarāja emanates a divine glow from His entire body and thus the other Lakṣmī is therefore also seen! The poet cleverly;y employs this idea and states, "Oh Lord, I surmise that You have more fondness for the Lakṣmī of Kānti (divine glow) more than  for the original Lakṣmī because You have the first all over Your body but the second is only on Your chest!" 
The poet wants us to realise that there is a divine glow in the Lord's entire body.

व्याकरणांशाः
मूलम्
लावण्यसागरभुवि प्रणयं विशेषाद् दुग्धाम्बुराशिदुहितुस्तव तर्कयामि ।
यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मीम् अन्यां तु केवलमधोक्षज वक्षसैव ॥२४॥
पदच्चेदः
लावण्य-सागर-भुवि, प्रणयम्, विशेषात्, दुग्ध-अम्बु-राशि-दुहितुः, तव, तर्कयामि, यत्, ताम्, बिभर्षि, वपुषा, निखिलेन, लक्ष्मीम्, अन्याम्, तु, केवलम्, अधोक्षज, वक्षसा, एव
सन्धयः
प्रणयम्, ताम्, अन्याम् = मोऽनुस्वारः
विशेषात् = झलां जशोऽन्ते
दुग्ध-अम्बु-राशि-दुहितुः तव = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
वक्षसा एव = वृद्धिरादैच्
आकाङ्क्षा-अन्वयः
अधोक्षज! तव प्रणयम् दुग्ध-अम्बु-राशि-दुहितुः विशेषात् लावण्य-सागर-भुवि (इति) तर्कयामि, यत् ताम् निखिलेन वपुषा बिभर्षि, अन्याम् लक्ष्मीम् तु केवलम् वक्षसा एव बिभर्षि!
Oh, Adhokṣaja, Śrī Varadarāja, I reason out that Your love for the consort born from the Mily Ocean, Lakṣmī , is exceeded by Your love for the Lakṣmī who is born in the ocean of beautiful divine glow, because I see You display her on Your entire body, whereas You hold the other Lakṣmī only on Your chest!
सुबन्तप्रक्रिया
लावण्य-सागर-भुवि -भू, ऊ स्त्री, ७.१, ङि, अचि श्नुधातुभ्रुवां य्वओरियङुवङौ
प्रणयम् - अ पुं, २.१, अम्, अमि पूर्वः
विशेषात् - अ पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः
दुग्ध-अम्बु-राशि-दुहितुः - ऋ स्त्री, ६.१, ङस्, ऋत उत्, उरण् रपरः, रात्सस्य, खरवसानयोर्विसर्जनीयः
तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ण्गसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
यत्, तु, एव, इति, केवलम्- अव्ययम्
ताम् - तद्, सर्वनाम स्त्री, त्यदादीनामः, २.१, अम्,अतो गुणे, अकः सवर्णे दीर्घः
वपुषा - वपुस्, स नपुं, ३.१, टा, आदेशप्रत्ययोः, वर्णमेलनम्
निखिलेन - अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
लक्ष्मीम् - ई, स्त्री, २.१, अम्, अमि पूर्वः
अन्याम् - आ, स्त्री, २.१, अम्, अमि पूर्वः
अधोक्षज - अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
वक्षसा - स नपुं, ३.१, टा, वर्णमेलनम्
तिङन्तप्रक्रिया
तर्कयामि - तर्क, चुरादिः, उभयपदी, लट्, उत्तमपुरुषः, एकवचनम्
बिभर्षि - भृ, जोहोत्यादि, उभयपदी, लट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
लावण्यस्य सागरः लावण्यमेव सागरः सम्भावनापूर्वपदकर्मधारयः, तस्मिन् भुवा, सागरस्य भू, षष्ठीतत्पुरुषः, तस्मिन् भवति सप्तमीतत्पुरुषः, तस्मिन्
अम्बोः राशिः , षष्ठी तत्पुरुषः, दुग्धेः अम्बुराशिः,षष्ठी तत्पुरुषः, तस्य दुहिता