Tuesday, December 12, 2023

Shloka 30 - Sri Varadarajastava


        Click on the image to open:
सेवारसागतसुराद्यनुबिम्बदृश्यं भूषामणिप्रकरदर्शितसर्ववर्णम् ।
त्वां विश्वरूपवपुषेव जनं समस्तं पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥
T: Oh, Śrī Varadarāja lording atop the Elephant Hill (नागगिरिनाथ), all the gods who have come to serve You are seen reflected as embedded in Your form.  All the glittering parts and gems in Your adornments display the gamut of colours in the world. Thus to me You appear as One having graced all the people with Your Universal Form (विश्वरूप)!

Explanation: In the Śrimad Bhagavadgītā, during the Viśvarūpa Darśana (granting the vision of the Universal Form of the Lord), Arjuna exclaims, "पश्यामि देवांस्तव देव देहे",  "नानावर्णाकृतीनि च",  and so on. He describes seeing in the the form of the Lord all the gods, and all the colours ever seen.  Now, in the form of  Śrī Varadarāja, all the gods are appearing reflected in His body. All the gems and ornaments are reflecting the dazzling gamut of colours.  Thus, the poet considers that the Lord Śrī Varadarāja is granting His full grace to the devotees by bestowing a vision of His Universal Form. 

व्याकरणांशाः
मूलम्
सेवारसागतसुराद्यनुबिम्बदृश्यं भूषामणिप्रकरदर्शितसर्ववर्णम् ।
त्वां विश्वरूपवपुषेव जनं समस्तं पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥
पदच्चेदः
सेवा-रस- आगत-सुर- आदि-अनु-बिम्ब-दृश्यम्, भूषा-मणि-प्रकर-दर्शित-सर्व-वर्णम्, त्वाम्, विश्व-रूप-वपुषा, इव, जनम्, समस्तम्, पश्यामि, नाग-गिरि-नाथ, कृतार्थयन्तम् ॥
सन्धयः
सेवा-रस- आगत-सुर- आदि-अनु-बिम्ब-दृश्यम्, त्वाम्, समस्तम् = मोऽनुस्वारः
रस+आगत = अकः सवर्णे दीर्घः
आदि+अनु= आद्यनु, इको यणचि
विश्व-रूप-वपुषा+ इव= आद्गुणः
आकाङ्क्षा-अन्वयः
नाग-गिरि-नाथ! सेवा-रस-आगत-सुर-आदि-अनु-बिम्ब-दृश्यम् भूषा-मणि-प्रकर-दर्शित-सर्व-वर्णम् विश्व-रूप-वपुषा इव जनम् समस्तम् कृतार्थयन्तम् त्वाम् पश्यामि



Lord Śrī Varadarāja atop the Elephant Hill, all the gods and others who have come, eager to serve You, are reflected in Your form; similarly, all the ornaments and gems in Your form are displaying the gamut of colours in the world. Thus I see that You are pleased to be granting a vision of Your Universal Form to all those come for Your Darshan!
सुबन्तप्रक्रिया
सेवा-रस- आगत-सुर- आदि-अनु-बिम्ब-दृश्यम्, भूषा-मणि-प्रकर-दर्शित-सर्व-वर्णम्, जनम्,
समस्तम् = अ पुं, २.१, अम्, अमि पूर्वः
त्वाम् - युष्मद्, पुं, २.१, अम्, ङे प्रथमयोरम्, त्वमवेकवचने, अतो गुणे, द्वितीयायाम् च,

 

अकः सवर्णे दीर्घः,
अमि पूर्वः
विश्व-रूप-वपुषा = स्, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आदेशप्रत्यययोः, वर्णमेलनम्
इव= अव्ययम्
नाग-गिरि-नाथ = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कृतार्थयन्तम्= त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः
तिङन्तप्रक्रिया
पश्यामि - दृश्, भ्वादि, पर्समिपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सेवा-रस- आगत-सुर- आदि-अनु-बिम्ब-दृश्यम् = सेवायाः रसः, ६तत्पुरुषः, रसेन आगतः, ३तत्पुरुषः
आगताः सुरादिः कर्मधा, अनुबिम्बम् दृश्यम् कर्मधा, तयोः दृश्यम् ६तत्पुरुषः
भूषा-मणि-प्रकर-दर्शित-सर्व-वर्णम् = भूषाः च मणिश्च = भूषामणयः, तयोः प्रकरः ६तत्पुरुषः
तेन दर्शितम्, ३तत्पुरुषः, दर्शितम् सर्ववर्णम् कर्मधा
विश्व-रूप-वपुषा = विश्वस्य रूपः, ६तपु, विश्वरूपः एव वपुः, अवधारणपूर्वपद कर्मधा, तेन
नाग-गिरि-नाथ = नाग इव गिरिः, उपमानपूर्वकर्मधा, गिरेः नाथः ६तत्पुरुषः, हे.