Sunday, December 10, 2023

Shloka 28 - Sri Varadarajastava


        Click on the image to open:



सर्वातिशायिसहजद्युतिभूषितस्य विश्वैकनायक विभूषणधारणं ते ।
आबद्धसौहृदमपारसुखाम्बुराशेर्वीक्षे तवैव विषयादिकुतूहलेन ॥
T: Oh, supreme Lord of all creation, Śrī Varadarāja, with Your own lustrous glow far exceeding all that shines in this universe, Your sporting ornaments can only be explained, I think, as something like one's material desire for worldly objects, since You are the very ocean of supreme bliss. 

Explanation: The Lord is Himself endowed with supreme lustre. Hence He has no need for wearing any ornaments. Yet, Lord Śrī Varadarāja is sporting divine ornaments here. He is the very ocean of supreme bliss. Yet, He took delight in sporting with the Gopis in different ways. Similarly, it seems His wearing ornaments is just a divine sport or Leela here, the poet says. 

व्याकरणांशाः
मूलम्
सर्वातिशायिसहजद्युतिभूषितस्य विश्वैकनायक विभूषणधारणं ते ।
आबद्धसौहृदमपारसुखाम्बुराशेर्वीक्षे तवैव विषयादिकुतूहलेन ॥
पदच्चेदः
सर्व-अतिशायि-सहज-द्युति-भूषितस्य, विश्व-एक-नायक, विभूषण-धारणम्, ते, आ-बद्ध-सौहृदम्, अपार-सुख-अम्बु-राशेः, वीक्षे, तव, एव, विषय-आदि-कुतूहलेन
सन्धयः
विश्व-एक+नायक = वृद्धिरादैच्
विभूषण-धारणम् = मोऽनुस्वारः
अपार-सुख+अम्बु-राशेः = अकः सवर्णे दीर्घः
राशेः+वीक्षे = ससजुषो रुः
तव + एव = वृद्धिरादैच्
आकाङ्क्षा-अन्वयः
विश्व-एक-नायक! सर्व-अतिशायि-सहज-द्युति-भूषितस्य ते विभूषण-धारणम्, अपार-सुख-अम्बु-राशेः
तव आ-बद्ध-सौहृदम् विषय-आदि-कुतूहलेन एव (इति) वीक्षे

Oh supreme Lord of all creation, Śrī Varadarāja, with Your form endowed with
a natural glow excelling the luminosity of all things in the universe, Your
wearing ornaments is similar I see to Your delighting in the company of Your
dear ones like Gopis, in spite of Your nature which is the ocean of supreme bliss (merely a Leela sport imitating man's material desires).
सुबन्तप्रक्रिया
सर्व-अतिशायि-सहज-द्युति-भूषितस्य = अ, पुं, ६.१, ङस्, टाङासिङसामिनात्स्याः
विश्व-एक-नायक = अ, पुं, १.१ सम्बोधनम्, ऍङ्ह्रस्वात् सम्बुद्धेः
विभूषण-धारणम्, आ-बद्ध-सौहृदम्- अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
ते = युष्मद्, पुं, ६.१, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, तेमयावेकवचनस्य
अपार-सुख-अम्बु-राशेः= इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिण्गसोश्च, ससजुषो रुः,
खरवसानयोर्विसर्जनीयः
तव = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङ सोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
एव = अव्ययम्
विषय-आदि-कुतूहलेन= अ नपुं, ३.१, टा, टाङासिङसामिनात्स्याः
तिङन्तप्रक्रिया
वीक्षे = वि+ईक्षे, ईक्ष्, भ्वादि, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सर्व-अतिशायि-सहज-द्युति-भूषितस्य= सर्वेषां अतिशायिन्, सर्वातिशायिश्च, सहजा, द्युतिः,
कर्मधारयः, त्या भूषितः, तृतीयातत्पुरुषः, तस्य
एकः नायकः कर्मधारयः, विश्वस्य एकनायकः षष्ठीतत्पुरुषः, हे
विभूषण-धारणम् = विशिष्टं भूषणम्, कर्मधारयः, तेषां धारणम् षष्ठीतत्पुरुषः, तम्
अपार-सुख-अम्बु-राशेः= अम्बोः राशिः, षष्ठीतत्पुरुषः, अपारं सुखम्, कर्मधारयः,
अपारसुखमेव अम्बुराशिः, अवधारणकर्मधारयः
सुहृदेन आबद्धम्, तृतीयातत्पुरुषः
विषयादेः कुतूहलम्, तेन - षष्ठीतत्पुरुषः