Saturday, December 30, 2023

Shloka 48 - Sri Varadarajastava



        Click on the image to open:

किं द्वादशात्मनि रवौ भगवन् धृतेर्ष्यः चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव ।
एते तवेह दश भान्ति पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥४८॥
T: Oh supreme Lord, is it that the moon, envious of the twelve-fold aspected sun, in order to excel him, made his home in Your ten toenails, and added three more- incarnating in the mind, Ṛṣi  Atri's eye and his rising from the Milky Ocean?

Explanation: द्वादशात्मो दिवाकरः states Amarakośa (the celebrated thesaurus of Sanskrit). Thus the sun has twelve forms. Seeing this, the moon became jealous and wanted to show himself in thirteen forms! So what he did, in the imagination of the poet, first came and settled in each of the ten toenails of Bhagavan Bhagavān Śrī Varadarāja in Kāñcī.  Then, he incarnated in the mind चन्द्रमा मनसो जातः। अत्रिनेत्रसमुद्भूतः declares the Purāṇa, meaning that the moon was born in the eye of Ṛṣi  Atri. Finally, the moon rose in his thirteenth form when the Milky Ocean was churned! Thus, with thirteen forms of his own, the moon got one over the sun with twelve forms. The poet is declaring here that the toenails of Lord Śrī Varadarāja shine like ten moons. It is moot if the moon really acted jealously towards the sun, but the poet has come up with this Utprekṣā figure of speech.

व्याकरणांशाः
मूलम्
किं द्वादशात्मनि रवौ भगवन् धृतेर्ष्यः चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव ।
एते तवेह दश भान्ति पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥४८॥
पदच्चेदः

किम्, द्वादश-आत्मनि, रवौ, भगवन्, धृत-ईर्ष्यः, चन्द्रः, ततः, अपि-अधिकताम्, अधिगन्तुम्, एव, एते, तव, इह, दश, भान्ति, पद-अङ्गुलीषु, स्व+आत्मानः, इति, अजनि, चित्त-दृक्-अर्णवेभ्यः
सन्धयः
किम्= मोऽनुस्वारः
द्वादश+आत्मनि,पद+अङ्गुलीषु, स्व+आत्मानः= अकः स्वर्णे दीर्घः
चन्द्रः+ ततः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
अपि+अधिकताम्=इको यणचि
ततः+अपि= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
तव+इह=आद्गुणः
दृगर्णवेभ्यः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
दृक्+अर्णवेभ्यः= झलां जश् झशि
आत्मानः+इति= ससजुषो रुः,भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
आकाङ्क्षा-अन्वयः
भगवन् ! रवौ द्वादश-आत्मनि धृत-ईर्ष्यः चन्द्रः ततः अपि-अधिकताम् अधिगन्तुम् एव एते -तव इह दश भान्ति पद-अङ्गुलीषु स्व+आत्मानः इति, अजनि चित्त-दृक्-अर्णवेभ्यः किम् ?
Translation
Oh, Lord! Developing jealousy for the twelve-fold sun, did the moon first take up tha ten toe-nails for himself, and then take birth in the mind, in the sage's eye and out of the Milky Ocean?
सुबन्तप्रक्रिया
किम्, इह, इति, एव, ततः = अव्ययम्
द्वादश-आत्मनि= न्, पुं, ७.१, ङि , वर्णमेलनम्
रवौ= इ, पुं, ७.१, ङि, अच्च घेः, वृद्धिरेचि
भगवन्= त्, पुं, १.१, सम्बोधनम्, सुँ, हे भगवन् त् स्= भगवन् त्= भगवन् उगिदचां सर्वनामस्थाने चाधातोः, हल्ङ्याब्भ्यो दीर्घात्सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
धृत-ईर्ष्यः, चन्द्रः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अपि-अधिकताम्= आ, स्त्री, २.१, अम्, अकः सवर्णे दीर्घः
एते= एतद्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः
तव= युष्मद्, पुं,६.१, ङस्, युष्मदस्मद्भ्याम् ङसोऽश्, तवममौ ङसि, अत्शो गुणे, शेषे लोपः
दश= न्, नपुं, ७.३, दश
पद-अङ्गुलीषु= लि, स्त्री, ७.३, सुप्, आदेशप्रत्यययोः
स्व+आत्मानः= न्, पुं, १.३, जस्, सर्वनामस्थाने चाऽसम्बुद्धौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अजनि =जातः, दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्
चित्त-दृक्-अर्णवेभ्यः=अ, पुं, ६.३, भ्यस्, बहुवचने झल्येत्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
भान्ति= दीप्तौ, अजादि, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
अधिगन्तुम्= अधि+गम्, तुमुन् कृदन्तः
द्वादश+आत्मनि= द्वादश आत्मानः यस्य सः, तस्मिन्, कर्मधारयः, बहुव्रीहिः
कमठ-अधिराजः= कमठानाम् अधिराजः (प्रादि तत्)=६तत्
पदाङ्गुलिषु= पद्भ्यां अङ्गुल्यः, तेषु, षष्ठीतत्पुरुषः
चित्त+दृक्+अर्णवेभ्यः= चित्तम् च दृक् च अर्णवः च, समाहारद्वन्द्वः, तेभ्यः