Monday, December 11, 2023

Shloka 29 - Sri Varadarajastava




        Click on the image to open:


मध्ये स्फुरन्मकरतोरणमण्डलस्य चामीकराभरणभूषितसर्वगात्रः ।
आदित्यबिम्बगतमाप्रपदात् सुवर्णं भासा भवाननुकरोति भवन्तमेव ॥
T: Oh, Lord Śrī Varadarāja, You are installed in the middle of the golden Makara Toraṇa of the Kāncī temple, adorned as You are with golden ornaments all over Your body. You resemble Yourself (as Mahā Viṣṇu) who are described as enshrined in the centre of the golden orb of the sun, and You shine from head to foot in gold!

Explanation: The special decoration surrounding the sanctum at Kāncī is called the Makara Toraṇa. In its centre stands the Lord Śrī Varadarāja adorned with splendid golden ornaments. The Vedic scriptures declare Lord Mahā Viṣṇu as the Supreme Being occupying the centre of the golden orb of the sun.  
"य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशः आ प्रणखात् सर्व एव सुवर्णः" "Lo behold the Supreme Being in the centre of the sun, with golden mane, golden locks and from toe to head golden in form." - the Upaniṣads. testify.  Thus, the Lord in Kāncī is emulating Himself as the central Deity in the sun! This clever turn of phrase by the poet harks to अनन्वय अलङ्कार Ananvaya Alaṅkāra or, by saying we are comparing two different states or forms of the Lord, it becomes a simile (Upamālaṅkāra).  

व्याकरणांशाः
मूलम्
मध्ये स्फुरन्मकरतोरणमण्डलस्य चामीकराभरणभूषितसर्वगात्रः ।
आदित्यबिम्बगतमाप्रपदात् सुवर्णं भासा भवाननुकरोति भवन्तमेव ॥
पदच्चेदः
मध्ये, स्फुरत्-मकर-तोरण-मण्डलस्य, चामीकर-आभरण-भूषित-सर्व-गात्रः, आदित्य-बिम्ब-गतम्, आप्रपदात्, सुवर्णं, भासा, भवान्, अनुकरोति, भवन्तम्, एव
सन्धयः
स्फुरत्+मकर= स्फुरन्मकर, झलां जशोऽन्ते, यरोऽनुनासिकेऽनुकासिको वा
चामीकर+आभरण= अकः सवर्णे दीर्घः
अपार-सुख+अम्बु-राशेः = अकः सवर्णे दीर्घः
गात्रः= ससजुषो रुः, खरव्सानयोर्विसर्जनीयः
सुवर्णम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
भवान् स्फुरत्-मकर-तोरण-मण्डलस्य मध्ये चामीकर-आभरण-भूषित-सर्व-गात्रः आदित्य-बिम्ब-गतम् आप्रपदात् सुवर्णं भवन्तम् एव भासा अनुकरोति


You, Lord Śrī Varadarāja, with Your entire body adorned with golden ornaments, standing in the centre of the shining ring called Makara Toraṇa of the Kāncī temple, are indeed imitating Yourself as the Supreme Being golden from head to toe at the centre of the sun, in your radiant form!
सुबन्तप्रक्रिया
मध्ये= अ, पुं, ७.१, ङि, आद्गुणः
स्फुरत्-मकर-तोरण-मण्डलस्य= अ,पुं, ६.१,ङस्, टाङसिङसामिनात्स्याः
चामीकर-आभरण-भूषित-सर्व-गात्रः= अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आदित्य-बिम्ब-गतम्, सुवर्णम्= अ, पुं, २.१, अम्, अमि पूर्वः
आप्रपदात् = अ,पुं, ५.१,ङसिँ ,टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
भासा = भास्, स्त्री, ३.१, टा, वर्णमेलनम्
भवान् = त्, पुं, १.१, सुँ, अत्वसन्तस्य चाधातोः, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
भवन्तम्=त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः
एव = अव्ययम्
तिङन्तप्रक्रिया
अनु+करोति = कृ, तनादि, उभयपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
स्फुरत्-मकर-तोरण-मण्डलस्य= मकर इति तोरणम् सम्भावनकर्मधारयः, स्फुरत् मकरतोरणम्, विशेषणपूर्वपदकर्मधारयः, तस्य मण्डलः, षष्ट्ःईतत्पुरुषः, तस्य
चामीकर-आभरण-भूषित-सर्व-गात्रः= चामीकरस्य आभरणानि, षष्ठीतत्पुरुषः, तैः भूषितं सर्व गात्रम् (कर्मधारयः), तृतीयातत्पुरुषः
आदित्य-बिम्ब-गतम्= आदित्यस्य बिम्बः, षष्ठीतत्पुरुषः, तस्मिन् गतः, सप्तमीतत्पुरुषः, तम्
आप्रपदात् = पादाग्रपर्य्यन्तम् , तस्मात् केवलसमासः