Thursday, December 21, 2023

Shloka 39 - Sri Varadarajastava




        Click on the image to open:
अङ्घ्रिद्वयस्य तव सन्ततमन्तरङ्गमम्भोजवर्गमिह योजयति श्रिया यत् ।
उत्कोचदानमिदमुष्णकरस्य बाल्यात् सत्कान्तिरत्नचयचोरणतत्परस्य ॥३९॥
T: Oh, Lord Śrī Varadarāja, Your friend, the sun, has been, since his childhood, engaged in surreptitiously stealing the "gems of lustre" residing in Your feet. That is why, everywhere, he is bribing the red lotuses known to be close friends (by similarity in appearance) to Your feet.  By casting his light to make them blossom, he gets close to Your feet for the break-in! 

Explanation:  Red lotuses resemble the Lord's feet. So poetically they are close friends of the Lord's feet. Now,  in the previous stanza, the young sun बालमित्र has already been shown to be a thief. He steals the red glow of the Lord's feet every morning. 
The poet unravels the plot. During the day, the sun bribes the red lotuses everywhere, shining on them and making them blossom. The red lotuses give in to the sun's bribery, facilitate the sun's access to the Lord's feet, and enable him to carry away the lustre of the Lord's feet without being caught and punished. This figure of speech used by the poet is Svarūpotprekṣālaṅkāra (स्वरूपोत्प्रेक्षालङ्कार).
व्याकरणांशाः
मूलम्
अङ्घ्रिद्वयस्य तव सन्ततमन्तरङ्गमम्भोजवर्गमिह योजयति श्रिया यत् ।
उत्कोचदानमिदमुष्णकरस्य बाल्यात् सत्कान्तिरत्नचयचोरणतत्परस्य ॥३९॥
पदच्चेदः
अङ्घ्रि-द्वयस्य, तव, सन्ततम्,अन्त-रङ्गम्, अम्भोज-वर्गम्, इह योजयति, श्रिया, यत् ,उत्कोच-दानम्, इदम्, उष्णकरस्य, बाल्यात्, सत्-कान्ति-रत्न-चय-चोरण-तत्परस्य
सन्धयः
आकाङ्क्षा-अन्वयः
यत् तव अङ्घ्रि-द्वयस्य अन्त-रङ्गम् अम्भोज-वर्गम् इह सन्ततम् (मित्रः) श्रिया योजयति इदम् उष्णकरस्य बाल्यात् सत्-कान्ति-रत्न-चय-चोरण-तत्परस्य उत्कोच-दानम्
Translation
That the red lotuses, dear friends of Your feet, are constantly illumined to blossom by the sun is explainable thus: he is from childhood a habitual thief of the lustrous gems hidden in Your feet and he is merely bribing the lotuses to gain access.
सुबन्तप्रक्रिया
अङ्घ्रि-द्वयस्य = अ, नपुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
सन्ततम्, इह , यत् = अव्ययम्
अन्त-रङ्गम्, अम्भोज-वर्गम्= अ, पुं, २.१, अम्, अमि पूर्वः
श्रिया = श्री, ई, स्त्री, ३.१, टा, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ
उत्कोच-दानम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
इदम् = इदम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
उष्णकरस्य, सत्-कान्ति-रत्न-चय-चोरण-तत्परस्य = अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
बाल्यात् = अ, नपुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, आद्गुणः
तिङन्तप्रक्रिया
योजयति= युज्, णिच्, दिवादि, आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अङ्घ्रि-द्वयस्य = अङ्घ्र्योः द्वयम्, षष्ठीतत्पुरुषः
अम्भोज-वर्गम्= अम्भसि जायते, केवलसमासः, अम्भोजस्य वर्गः, तम् , षष्ठीतत्पुरुषः
उत्कोच-दानम् = दानमिव उत्कोचम् उपमानउत्तरपदकर्मधारयः
उष्णकरस्य = उष्णं करोति= उपपदसमासः,
सत्-कान्ति= कर्मधारयः, रत्नस्य चयः= षष्ठीतत्पुरुषः, कान्तिः एव रत्नचयः= अवधारणाकर्मधारयः, तस्य चोरणम् = षष्ठीतत्पुरुषः, तस्मिन् तत्परः, तस्य= सप्तमीतत्पुरुषः