Wednesday, December 27, 2023

Shloka 45 - Sri Varadarajastava



        Click on the image to open:


मातङ्गशैलमणिशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् ॥४५॥
T: Oh, Lord Śrī Varadarāja, resplendent like the bejewelled gem-studded peak atop the Elephant Hill, the lotus flower is indeed culpable for having imagined itself to be comparable to Your feet. But then, the lotus thought of atoning itself, and became lotus marks on Your feet! That act of devotion redeems the lotus, in my opinion.

Explanation: According to the astrology of body marks, in the feet of great souls, there are lotus marks. That lotus mark indicates divinity associated with the lotus. So the poet is now articulating that the lotus marks on Lord Śrī Varadarāja's feet are indeed a continual act of contrition and atonement by the lotus after it audaciously compared itself to the Lord's feet!

व्याकरणांशाः
मूलम्
मातङ्गशैलमणिशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् ॥४५॥
पदच्चेदः
मातङ्ग-शैल-मणि-शेखर, ते, पदाभ्याम्, मोहेन, साम्यम्,अनुचिन्त्य, कृत-अपराधम्, शङ्के, सरोजम्, अनयोः, उभयोः, उपेत्य, रेखा, छलेन, सततम्, विदधाति, सेवाम्
सन्धयः
पदाभ्याम्, सततम् = मोऽनुस्वारः
कृत-अपराधम्= अकः सवर्णे दीर्घः
अनयोः+उभयोः+उपेत्य= ससजुषो रुः
रेखा+छलेन= पदान्तात् वा, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
मातङ्ग-शैल-मणि-शेखर! सरोजम् ते पदाभ्याम् मोहेन साम्यम् अनुचिन्त्य कृत-अपराधम् अनयोः उभयोः छलेन सततम् उपेत्य रेखात् सेवाम् विदधाति
Translation
Oh, Lord resplendent like a gem and jewel peak atop the Elephant Hill, the lotus is culpable for having imagined itself comparable in beauty and glory to Your feet. And now, I think, the lotus is making amends by contriving to place itself as lotus marks on Your feet in a continual act of servitude!
सुबन्तप्रक्रिया
मातङ्ग-शैल-मणि-शेखर = अ, पुं, १.१, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
ते= युष्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य अन्वादेशे
पदाभ्याम्= अ, नपुं, ४.२, भ्याम्, सुपि च
मोहेन, रेखाच्चलेन= अ, पुं, ३.१, टा, टाङसिण्गसामिनात्स्याः, आद्गुणः
साम्यम्= अ, नपुं, २.१, अतोऽम्, अमि पूर्वः
कृत-अपराधम्, सरोजम् = अ, नपुं, १.१, अमोऽम्, अमि पूर्वः
अनयोः= इदम्, नपुं, ६.२, ओस्, त्यदादीनामः, अतो गुणे, अनाप्यकः, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
उभयोः=उभ, नपुं, ६.२, ओस्, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सततम्= अव्ययम्
सेवाम्= आ, स्त्री, 2.1, अम्, अकः सवर्णे दीर्घः
तिङन्तप्रक्रिया
शङ्के= शङ्क्, भ्वादि, उभयपदी, लट्, उत्तमपुरुषः, एकवचनम्
विदधाति= वि+धा, जुहोत्यादि, उभयपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
मातङ्ग-शैल-मणि-शेखर= मातङ्ग इव शैलः, उपमानपूर्वपदकर्मधारयः, मणेः शिखरः, षष्ठीतत्पुरुषः, शैलस्य मणीशिखरः,षष्ठीतत्पुरुषः
कृतापराधम् = कृतः अपराधः येन, तद्, तृतीयाबहुव्रीहिः