Sunday, December 3, 2023

Shloka 21 Sri Varadarajastava





        Click on the image to open:


उच्छेदमेकविषयात् कथयन्ति बोधान्मोहस्य ये खलु कथं न मृषावदास्ते ।
लावण्यमीश तव यन्नयनैर्निपीय तत्रैव मोहमधिकं दधते तरुण्यः ॥२१॥
T: Oh, Lord Śrī Varadarāja, the scholars who say complete and proper knowledge of any subject dispels the delusion of ignorance about that subject are indeed nay-sayers! (Mithyāvāda of naysayers is frowned upon by the devout). This has to be so, because, the young damsels who drink in with their eyes Your beauty indeed experience more enchantment in it, not less!

Explanation:  The perception that there is a snake in one place when there is only a rope is called delusion. If a person is explained that it is indeed only a rope, his delusion that it is a snake is dispelled. The people who state this are Mṛṣāvādins, i.e. those who state that this world is unreal and a mere product of delusion. They are also described as Advaitins.  

When young damsels look upon the enchanting form of Lord Śrī Varadarāja, does not a type of delusion, infatuation, or enchantment, arise instantly? So the poet is raising the issue that seeing the Lord, the Paramātmā, is increasing delusion instead of removing it! The word Moha can mean both delusion and a loving enchantment, and this artifice is used by the poet here cleverly. 

Note from me: The reference to young damsels has to be put in perspective. According to the Bhakti tradition across cultures, each devotee considers himself or herself the handmaiden of the Supreme Lord, the Paramapuruṣa (Supreme Male).  Thus all devotees can be reckoned as included in any term describing young female devotees. 

This is tellingly narrated in the story of Saint Meera's visit to Brindavan, the abode of Lord Śrī Kṛṣṇa. When she is stopped by a devotee from entering a place saying women are barred from entry, she famously declares that there is only one real male (Supreme Male) in the universe and all others are indeed female, his handmaidens.

व्याकरणांशाः
मूलम्
उच्छेदमेकविषयात् कथयन्ति बोधान्मोहस्य ये खलु कथं न मृषावदास्ते ।
लावण्यमीश तव यन्नयनैर्निपीय तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१॥
पदच्चेदः
उच्छेदम्, एकविषयात्, कथयन्ति, बोधात्, मोहस्य, ये, खलु, कथम्, न मृषावदाः, ते, लावण्यम्, ईश, तव, यत्, नयनैः, निपीय, तत्र, एव, मोहम्, अधिकम्, दधते, तरुण्यः
सन्धयः
बोधात् + मोहस्य = झलां जशोऽन्ते, यरोऽनुनासिकेऽनुनासिको वा
कथम्, अधिकम् = मोऽनुस्वारः
मृषावदाः ते = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
यत् + नयनैः = झलां जशोऽन्ते, यरोऽनुनासिकेऽनुनासिको वा
नयनैः+ निपीय = ससजुषो रुः
तत्र + एव = वृद्धिरादैच्
तरुण्यः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
ईश, यत् तव लावण्यम् तरुण्यः नयनैः निपीय तत्र एव मोहम् अधिकम् दधते, ये बोधात् एकविषयात् मोहस्य उच्छेदम् इतिखलु कथयन्ति ते कथम् न मृषावदाः?
"
Oh, Lord, since the young maidens who drink in with their eyes Your supreme attractive beauty become greatly enchanted therein, those who assert that knowledge uproots and restroys the delusion in any object are indeed naysayers, denying reality, are they not?
सुबन्तप्रक्रिया
उच्छेदम् - अ, पुं, २.१, अम्, अमि पूर्वः
एकविषयात्, बोधात्- अ, पुं, ५.१, ङसि, टाङसिण्गसामिनात्स्याः, आद् गुणः
मोहस्य - अ, पुं, ६.१, ङस्, टाङसिण्गसामिनात्स्याः, आद् गुणः
ये - यद् सर्वनाम पुं, १.३, जस् - त्यदादीनामः, अतो गुणे, जसः शी, आद् गुणः
खलु, न, कथम्, तत्र, एव, यत् = अव्ययम्
मृषावदाः - अ पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ते - तद्, सर्वनाम, पुं, १.३, जस् - त्यदादीनामः, अतो गुणे, जसः शी, आद् गुणः,
लावण्यम् - अ नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
ईश - अ, पुं, १.१ सम्बोधन, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ण्गसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
नयनैः - अ नपुं, ३.३, भिस्, अतो भिस ऐस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मोहम् - अ पुं, २,१, अम्, अमि पूर्वः
अधिकम् - अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तरुण्यः - ई स्त्री, १.३, जस्, इको यणचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
कथयन्ति, चुरादिः, उभयपदी, लट्, प्रथमपुरुषः, बहुवचनम्
दधते - धा, जुहोत्यादि,  उभयपदी       लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
एकविषयात्, एकः विषयः, तस्मात्, कर्मधारयः
निपीय = नि+पा, ल्यबन्त
मृषावदाः, मृषां वदति, उपपदसमासः, ते