Friday, January 19, 2024

Shloka 69 - Sri Varadarajastava




        Click on the image to open:

त्वां सर्वभूतमयमाश्रितसर्ववर्णं यद् वैजयन्त्युपगताच्युत सर्वगन्धम् ।
तेनैव किं त्रिभुवनैकमहावदान्य सारूप्यमावहति ते सकलाभिवन्द्यम् ॥६९॥
T:  Oh, Acyuta, the One encompassing all creation, being the source of all colours, and the One from whom emanates all fragrance, You are now providing shelter to the celestial Vaijayantī  Mālā. Oh, Lord, You who are the One conferring all gifts and boons to all in the three worlds. Is that the reason, therefore, that this Vaijayantī has also been granted the status of Sārūpyam by Your grace, and is worshipped by all as being identical to You? 
 Explanation:  The Lord dwells as the inner soul of all creation and the heart of all living creatures. Vipra-Kṣatriya-Vaiśya-Śūdra - all categories of men have as their refuge the same Lord. The Veda says, सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः। Thus the Lord is origin of all fragrances too.  The Vaijayantī  Mālā which adorns the Lord has thus acquired all these qualities! The Purāṇās declare that the Vaijayantī  Mālā has all these divine attributes- 
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसङ्घातभूता माला च वै द्विज॥ 
"The Lord's Vaijayantī  Mālā is the abode of all five elements, encompasses all colours and all fragrances".
 The poet assures that the Vaijayantī Mālā's glory is entirely due to her coming into the Lord's service and being blessed by Him to achieve identity of form. This is Utprekṣā.

व्याकरणांशाः
मूलम्
त्वां सर्वभूतमयमाश्रितसर्ववर्णं यद् वैजयन्त्युपगताच्युत सर्वगन्धम् ।
तेनैव किं त्रिभुवनैकमहावदान्य सारूप्यमावहति ते सकलाभिवन्द्यम् ॥६९॥
पदच्चेदः
त्वाम्, सर्व-भूत-मयम्, आश्रित-सर्व-वर्णम्, यद्, वैजयन्ती, उपगता, अच्युत, सर्वगन्धम्, तेन, एव, किम्, त्रिभुवन-एक-महा-वदान्य, सारूप्यम्, आवहति, ते, सकल-अभिवन्द्यम्
सन्धयः
त्वाम्, आश्रित-सर्व-वर्णम्, किम्= मोऽनुस्वारः
वैजयन्ती॒+उपगता=इको यणचि
तेन+एव, त्रिभुवन-एक= वृद्धिरेचि
सकल+अभिवन्द्यम्= अकः सवर्णे दीर्घः
यद्= यत्, झलां जशोऽन्ते, वाऽवसाने
आकाङ्क्षा-अन्वयः
अच्युत! त्रिभुवन-एक-महा-वदान्य! त्वाम् सर्व-भूत-मयम् आश्रित-सर्व-वर्णम् सर्वगन्धम् यद् वैजयन्ती उपगता तेन एव सकल-अभिवन्द्यम् ते सारूप्यम् आवहति किम्
Translation
Oh, Acyuta! The greatest giver of boons and gifts in the three worlds, by coming as adornment to You who are the embodiment of all beings, the support of all colours and all fragrances in creation, has the Vaijayantī Mālā secured that elusive identity with Your form that is worshipped by all?
सुबन्तप्रक्रिया
त्वाम् = युष्मद्, २.१, अम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्णे दीर्घः, अमि पूर्वः
सर्व-भूत-मयम्, आश्रित-सर्व-वर्णम्, सर्वगन्धम्= अ, पुं, २.१, अम्, अमि पूर्वः
यद्, एव, किम्=यत्, अव्ययम्
वैजयन्ती= ई. स्त्री, १.१, सुँ, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
उपगता= आ, स्त्री, १.१, सुँ, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
अच्युत, त्रिभुवन-एक-महा-वदान्य= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तेन= तद्, पुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिण्गसामिनात्स्याः
सारूप्यम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
ते = युष्मद्, पुं, ६.१, ङस्, अन्वादेशरूपं, तेमयावेकवचनस्य
तिङन्तप्रक्रिया
आवहति= आङ्+ वह् भ्वादि, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सर्व-भूत-मयम्= सर्वाणि भूतानि, कर्मधारयः, सर्वभूतानि+मयट् तद्धितः, तम्
आश्रित-सर्व-वर्णम्= आश्रिताः वर्णाः सर्वाः कर्मधारयः, यस्य सः, तम्, बहुव्रीहिः
वैजयन्ती= वि + जि (अभिभवे) - "झच्" (उ० ३-१२८) । "अण्" (४-३-१२०) कृदन्तः
उपगता=उप+गम्, कर्तरी क्त, स्त्री, कृदन्तः
अच्युत= न च्युतिः यस्य सः, हे, बहुव्रीहिः
सर्वगन्धम्= सर्वः गन्धः, तम् कर्मधारयः
त्रिभुवन-एक-महा-वदान्य=त्रयाणं भुवनानां समाहारः त्रिभुवनम् द्विगुः, तस्य एकः महान् वदान्यः कर्मधारयः, ६तत्, हे
सारूप्यम्= सरूपस्य भावः तद्धितः
सकल-अभिवन्द्यम्= सकलैः अभिवन्द्यः, तम् = ३ तत्