Monday, January 29, 2024

Shloka 78- Sri Varadarajastava



        Click on the image to open:

कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिञ्चवाक्यविकृतेव सरस्वती सा ।
त्रिस्रोतसस्तव पदाब्जभुवो विशेषमाकाङ्क्ष्य पाणिकमलात्तव निस्सरन्ती ॥७८॥
T:  Oh, Lord Śrī Varadarāja, the splendrous Gada Kaumodakī is held in Your hand, vying to excel the river Gaṅgā flowing in three worlds after coming from Your lotus feet. Kaumodakī indeed appears to be Goddess Sarasvatī herself, come into Your hand after being displeased by the words of Lord Brahmā!

Explanation: Brahmāṇḍa Purāṇa narrates a story when Brahmā placed Goddess Lakṣmī higher than Goddess Sarasvatī which distressed Sarasvatī. That is when Sarasvatī came down to earth and began to flow as the subterranean river Sarasvatī. Here the poet compares (Utprekṣā) the Gada (mace) in the Lord's hand to the Sarasvatī river (flowing with majesty and power). Sarasvatī vies with Gaṅgā flowing from the Lord's feet and now Sarasvatī flows from His lotus hand. 

व्याकरणांशाः
मूलम्
कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिञ्चवाक्यविकृतेव सरस्वती सा ।
त्रिस्रोतसस्तव पदाब्जभुवो विशेषमाकाङ्क्ष्य पाणिकमलात्तव निस्सरन्ती ॥७८॥
पदच्चेदः
कौमोदकी, स्फुरति, ते, कर-पल्लव-अग्रे, वैरिञ्च-वाक्य-विकृता, इव, सरस्वती, सा, त्रिस्रोतसः, तव, पद-अब्ज-भुवः, विशेषम्, आकाङ्क्ष्य, पाणि-कमलात्, तव, निस्सरन्ती
सन्धयः
पल्लव+अग्रे, पद+अब्ज=अकः सवर्णे दीर्घः
विकृता+इव=आद्गुणः
त्रिस्रोतसः+तव= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
भुवः+विशेषम्= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
कमलात्+तव= झलां जसोऽन्ते, खरि च
आकाङ्क्षा-अन्वयः
ते कर-पल्लव-अग्रे वैरिञ्च-वाक्य-विकृता सरस्वती इव कौमोदकी स्फुरति | सा (सरस्वती) तव पद-अब्ज-भुवः त्रिस्रोतसः विशेषम् आकाङ्क्ष्य तव पाणि-कमलात् निस्सरन्ती
Translation
In Your delicate hand shines the Kaumodakī like the river Sarasvatī upset by Brahmā's words. She scores over the tri-worldly holy river Gaṅgā flowing from Your lotus feet as Sarasvatī is placed higher, flowing from Your lotus hand!
सुबन्तप्रक्रिया
कौमोदकी, सरस्वती, निस्सरन्ती= ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
ते= युष्मद्, ६.१, अन्वादेशे, तेमयावेकवचनस्य
कर-पल्लव-अग्रे=अ, पुं, ७.१, ङि, आद्गुणः
वैरिञ्च-वाक्य-विकृता= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
इव = अव्ययम्
सा = तद्, स्त्री. १.१, सुँ, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, तदोः सः सवनन्त्ययोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
त्रिस्रोतसः, पद-अब्ज-भुवः=स्, नपुं, ५.१, ङसिँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, षेषे लोपः
विशेषम्= अ, पुं, २.१, अम्, अमि पूर्वः
पाणि-कमलात्= अ, नपुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
तिङन्तप्रक्रिया
स्फुरति= स्फु, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
कौमोदकी= कोः मोदकः, तस्य इयम् तद्धितः
कर-पल्लव-अग्रे= करः पल्लव इव, कर्मधारयः, तस्य अग्रे ६तत्
वैरिञ्च-वाक्य-विकृता=वैरिञ्च्यम् वाक्यम् कर्मधारयः, तेन विकृता ३तत्
त्रिस्रोतसः= त्रयाणां स्रोतः, द्विगुः, तस्मात्
पद-अब्ज-भुवः= पदम् अब्जमिव, कर्मधारयः, तस्मात् भूः, तस्मात् ५तत्
पाणि-कमलात्=पाणिः कमलमिव, कर्मधारयः, तस्मात्
निस्सरन्ती= निस्+सरन्ती प्रादिसमासः