Sunday, January 21, 2024

Shloka 70 - Sri Varadarajastava




        Click on the image to open:

ताराभिरामपरिणाहलसत्सिताभ्रं तापिच्छमेचकमुरः शरदन्तरिक्षम् ।
प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥७०॥
T:  Oh Lord, the Kaustubha gem on Your chest is resplendent like the wintry full moon. Your chest sports the starry camphor-white pure pearls in its expanse and enjoys enhanced lustre.  The wintry sky is illumined by pearly stars and also has white clouds. The whole expanse has a unique dusky appearance too, like the Himalayan shesham tree. 

Explanation: Only when the moon finds himself in the clear wintry sky does he find his total resplendence. Similarly, the Kaustubha gem only finds its brilliance when resting on the Lord's chest! This comparison uses the figure of speech Śleṣa as it puns on the words- the Lord's chest and the wintry sky. Again, the word Tārābhirāma means the necklace of white pearls and the constellation of stars in the wintry sky.  The word Sitābhra means milky white clouds and the fragrant camphor on the Lord's chest. This is a classic simile employing the pun or Śleṣa.

व्याकरणांशाः
मूलम्
ताराभिरामपरिणाहलसत्सिताभ्रं तापिच्छमेचकमुरः शरदन्तरिक्षम् ।
प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥७०॥
पदच्चेदः
तारा-अभिराम-परिणाह-लसन्, सिताभ्रम्, तापिच्छ-मेचकम्, उरः, शरद्‌-अन्तरिक्षम्, प्राप्य, एव, देव, तव, कौस्तुभ-पूर्ण-चन्द्रः, पूर्णाम्, बिभर्ति, पुरुषोत्तम, कान्ति-रेखाम्
सन्धयः
तारा+अभिराम= अकः सवर्णे दीर्घः
लसन्+सिताभ्राम्=स्तोः श्चुना श्चुः
सिताभ्रम्, पूर्णाम्= मोऽनुस्वारः
मुरः+शरद्‌= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, वा शरि
प्राप्य+एव= वृद्धिरेचि
चन्द्रः+ पूर्णाम् = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
पुरुष+उत्तम= आद्गुणः
आकाङ्क्षा-अन्वयः
देव, पुरुषोत्तम! तव कौस्तुभ-पूर्ण-चन्द्रः तारा-अभिराम-परिणाह-लसन् सिताभ्राम् तापिच्छ-मेचकम् उरः शरद्‌-अन्तरिक्षम् प्राप्य एव पूर्णाम् कान्ति-रेखाम् बिभर्ति
Translation
Oh, Lord, the Supreme Being, the moon that rests on Your chest as the Kausthubha, respelendent being surrounded by stars, with the pearl necklaces being white clouds, only after by attaining his place on Your dark and beautiful chest that is like the Sesham tree, shows his full radiance.
सुबन्तप्रक्रिया
तारा-अभिराम-परिणाह-लसन् = त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, संयोगान्तस्य लोपः
सिताभ्रम्, शरद्‌-अन्तरिक्षम्, तापिच्छ-मेचकम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
उरः= स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
प्राप्य= अव्यय,प्र+आप्, ल्यबन्तः
एव= अव्ययम्
देव, पुरुषोत्तम= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात्सम्बुद्धेः
तव = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, आत् गुणः, शेषे लोपः
कौस्तुभ-पूर्ण-चन्द्रः= अ, पुं, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कान्ति-रेखाम् , पूर्णाम्, आ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
बिभर्ति = भृ, जुहोत्यादि, उभयपदी (अत्र परस्मैपदी), लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
तारा-अभिराम-परिणाह-लसन्=ताराणाम् अभिरामः ६तत्, अभिरामः परिणाहः लसन् = कर्मधारयः
सिताभ्रम्= सितम् अभ्रम्म्, कर्मधारयः, तम्
शरद्‌-अन्तरिक्षम्= शरदः अन्तरिक्षम् ६तत्, तम्
कौस्तुभ-पूर्ण-चन्द्रः= कौस्तुभमेव पूर्णचन्द्रः (पूर्णः चन्द्रः कर्मधारयः), अवधारणापूर्वपदकर्मधारयः
पुरुषोत्तम= पुरुषाणां उत्तमः, हे ६तत्
कान्ति-रेखाम्= कान्त्याः रेखा, ताम्, ६तत्पुरुषः