Wednesday, January 24, 2024

Shloka 73- Sri Varadarajastava





        Click on the image to open:



जात्यैव यद्वरद पल्लवराग एषः यल्लास्यते च भवता कटके निवेश्य।
मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥७३॥
T:  Oh, Lord Śrī Varadarāja, this ruby gem on Your wrist bracelet is born with its unique reddish hue akin to tender shoots. You are wearing it and looking upon it with affection. This has made the ruby so arrogant that it now scoffs at even the sun (Savitṛ, its own father!)

Explanation: The ruby gem on the Lord's bracelet shines brighter than even the sun, thinks the poet. He resorts to exaggeration by punning on four words with Śleṣa: Pallava (tender shoot, rogue), Rāga (red, affection) Kaṭaka (bracelet, army) Savitṛ (sun, father). Just as an indulgent king who endows the army with greater autonomy faces insolence, or a father finds his son roguish and disobedient, the ruby on the bracelet is insolent in scoffing at the sun owing to its reddish grandeur!

व्याकरणांशाः
मूलम्
जात्यैव यद्वरद पल्लवराग एषः यल्लास्यते च भवता कटके निवेश्य।
मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥७३॥
पदच्चेदः
जात्या, एव, यद्, वरद, पल्लव-रागः, एषः, यत्, लास्यते, च, भवता, कटके, निवेश्य,मन्ये, मणिः, तद्, उप-गम्य, मद-अन्ध-भावम्, साक्षात्, अयम्, सवितुः, एव, करोति, अवज्ञाम्
सन्धयः
जात्या+एव= व्रिद्धिरेचि
यद्+वरद, तद्+उप-गम्य, साक्षात्+अयम्= झलां जशोऽन्ते
यत्+लास्यते=तोर्लि
मणिः+ तद्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
मद-अन्ध-भावम्, अयम्=मोऽनुस्वारः
सवितुः+एव= ससजुषो रुः
करोति+अवज्ञाम् = इको यणचि
आकाङ्क्षा-अन्वयः
वरद! यद् जात्या एव एषः पल्लव-रागः यत् कटके निवेश्य भवता लास्यते च तद् अयम् मणिः मद-अन्ध-भावम् उप-गम्य साक्षात् सवितुः एव अवज्ञाम् करोति मन्ये
Translation
Oh, Lord Śrī Varadarāja! Born to be radiant red like tender buds, this ruby on Your wrist is receiving Your affection, and therefore, the ruby is swollen with blind arrogance and insults verily the sun, I think!
सुबन्तप्रक्रिया
जात्या = इ, स्त्री, ३.१, टा, इको यणचि
एव, यद्, तद्, च, साक्षात् = अव्ययम्
वरद = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
पल्लव-रागः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एषः= एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सावनन्त्ययोः, आदेशप्रत्यययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भवता= त्, पुं, ३.१, टा, टाङसिङसामिनात्स्याः
कटके=अ, पुं, ७.१, ङि, आद्गुणः
मणिः= इ, पुं, १.१, सुँ,ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मद-अन्ध-भावम्= अ, पुं, २.१, अम्, अमि पूर्वः
अयम्= इदम्, पुं, १.१,सुँ, इदमो मः, इदोऽय् पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
सवितुः=ऋ, पुं, ६.१, ङस्, ऋत उत्, रात्सस्य, खरवसानयोर्विसर्जनीयः
अवज्ञाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
लास्यते= लस्, भ्वादि, कर्मणि (आत्मनेपदी), लट्, प्रथमपुरुषः, एकवचनम्
मन्ये= दिवादि, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
नि-वेश्य, उप-गम्य =ल्यबन्तः
पल्लव-रागः = पल्लवस्य रागः ६तत्
मद-अन्ध-भावम्= मदः, अन्धः कर्मधारयः, तस्य भावम्, तम् ६तत्
अवज्ञाम्=अव-ज्ञा-अङ्, ताम्