Monday, January 22, 2024

Shloka 71- Sri Varadarajastava





        Click on the image to open:


नाभीसरोजकिरनैर्मणिराजभाभिरात्मप्रभाभिरपि संवलितं विभाति ।
श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं वक्षः परीतमिव सत्त्वरजस्तमोभिः॥७१॥
T:  Oh, Lord, Your chest is illumined in three ways - from the rays emanating from Your lotus navel, the lustre of the Kaustubha gem, and the glow coming from Your entire form. It seems Your form also known as Śrīvatsa (beloved of the goddess of prosperity) is lit up from the three aspects of Nature or Prakṛti viz. Sattva, rajas and Tamas around it.
 Explanation:  The three aspects of Prakṛti or the Lord's active manifestation in Nature that pervades all creation in different ways are- Sattva (Purity), Rajas (Passion) and Tamas (Sloth). They are associated with white, red and black colours, too. The Lord's navel is a white lotus emanating the Sattva light. The Kaustubha gem is red in colour and emanates the light of Rajas. The Lord's overall form is darkish like a cloud, and one can say it emits the glow of Tamas. All the three are casting the respective aspects of light on the Lord's chest here- like the three aspects of Prakṛti, opines the poet. This is Utprekṣā.

व्याकरणांशाः
मूलम्
नाभीसरोजकिरणैर्मणिराजभाभिरात्मप्रभाभिरपि संवलितं विभाति ।
श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं वक्षः परीतमिव सत्त्वरजस्तमोभिः॥७१॥
पदच्चेदः
नाभी-सरोज-किरणैः, मणि-राज-भाभिः, आत्मप्रभाभिः, अपि संवलितम्, विभाति, श्री-वत्स-विग्रहजुषः, प्रकृतेः, त्वदीयम्, वक्षः, परीतम्, इव, सत्व-रजस्-तमोभिः
सन्धयः
नाभी-सरोज-किरणैः+मणि-राज-भाभिः, मणि-राज-भाभिः+आत्मप्रभाभिः, आत्मप्रभाभिः+अपि = ससजुषो रुः
संवलितम्, त्वदीयम् = मोऽनुस्वारः
श्री-वत्स-विग्रहजुषः+प्रकृतेः, वक्षः+परीतम्=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
प्रकृतेः+त्वदीयम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
सत्त्व-रजस्-तमोभिः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
त्वदीयम् वक्षः श्री-वत्स-विग्रहजुषःनाभी-सरोज-किरणैः मणि-राज-भाभिः आत्मप्रभाभिः अपि संवलितम् विभाति प्रकृतेः सत्व-रजस्-तमोभिः परीतम् इव
Translation
Oh, Lord! Your chest is illumined by the rays from Your lotus navel, by the lustre of the red Kaustubha gem, and by the glow of Your own body; being the beloved abode of Śri, in other words, Your aspect of Prakṛti or Nature, it appears that Your chest is illumined by Sattva, rajas and Tamas of Your own Prakṛti or Nature!
सुबन्तप्रक्रिया
नाभी-सरोज-किरणैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मणि-राज-भाभिः, आत्मप्रभाभिः=आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अपि, इव= अव्ययम्
संवलितम्, त्वदीयम्, परीतम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
श्री-वत्स-विग्रहजुषः= ष्, स्त्री, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
प्रकृतेः= इ, स्त्री, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वक्षः = स्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सत्त्व-रजस्-तमोभिः = स्, ३.३, भिस्, ससजुषो रुः, हशि च, आद्गुणः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
विभाति= वि+भा, अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
नाभी-सरोज-किरणैः=नाभी सरोजमेव, कर्मधारयः, तस्य किरणः, तैः ६तत्
मणि-राज-भाभिः= मणीनाम् राजा मणिराजः ६तत्, तस्य भा, ताभिः ६तत्
आत्मप्रभाभिः= आत्मनः प्रभा, ताभिः ६तत्
श्री-वत्स-विग्रहजुषः= श्रियाः वत्सः इति लाञ्छनम्, कर्मधारयः, तस्य विग्रहः, ६तत्, तस्य जुष्, तस्याः ६तत्
तव इदम् = त्वदीयम् ६तत्
सत्त्व-रजस्-तमोभिः= सत्त्वश्च रजश्च तमश्च= सत्त्वरजस्तमसः, तैः द्वन्द्वः