Thursday, February 1, 2024

Shloka 81 - Sri Varadarajastava



        Click on the image to open:

आभाति मौक्तिकगुणग्रथितैरनल्पैर्नीलोत्पलैर्वलयितस्तव नाथ कण्ठः ।
संवर्तमेघवसतिं ध्वननैस्तदन्तर्निश्चित्य तन्निकटगैरिवमेघडिम्भैः॥ ८१॥
T:  Oh Lord Śrī Varadarāja, adjacent to Your sparkling pearl necklaces are the string of blue lotuses gathered such that one thinks they are little clouds seeking to be close to the huge dark cloud rumbling at the time of the final dissolution that is Your deep resonant voice! 
Explanation:  When the Lord speaks, it is with a profoundly deep rumbling voice. Thinking that this sound is emanating from the dark, huge cloud of the final dissolution, little clouds in the form of blue lotuses have gathered to be close for safety! This is the poet's imagination indeed. 
व्याकरणांशाः
मूलम्
आभाति मौक्तिकगुणग्रथितैरनल्पैर्नीलोत्पलैर्वलयितस्तव नाथ कण्ठः ।
संवर्तमेघवसतिं ध्वननैस्तदन्तर्निश्चित्य तन्निकटगैरिवमेघडिम्भैः॥ ८१॥
पदच्चेदः
आभाति, मौक्तिक-गुण-ग्रथितैः, अनल्पैः, नीलोत्पलैः, वलयितः,तव,नाथ, कण्ठः, संवर्त-मेघ-वसतिम्, ध्वननैः, तदन्तः, निश्चित्य, तत्-निकटगैः, इव, मेघ-डिम्भैः
सन्धयः
ग्रथितैः+अनल्पैः, अनल्पैः+नीलोत्पलैः,नीलोत्पलैः+वलयितः, तदन्तः, निश्चित्य, तत्-निकटगैः+इव=ससजुषो रुः
वलयितः+तव=ससजुषो रुः, खरवसानयोर्विसर्जणीयः, विसर्जनीयस्य सः
कण्ठः, मेघ-डिम्भैः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वसतिम्= मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
नाथ! तव कण्ठः मौक्तिक-गुण-ग्रथितैः अनल्पैः नीलोत्पलैः वलयितः तदन्तः ध्वननैः संवर्त-मेघ-वसतिम् निश्चित्य मेघ-डिम्भैः इव तत्-निकटगैः आभाति ।
Translation
Oh Lord, Your neck, adorned with pearl necklaces, is also wearing a garland of blue lotuses, appearing to cluster for safety to what they think is the dark cloud of final dissolution as Your voice rumbles from deep within.
सुबन्तप्रक्रिया
मौक्तिक-गुण-ग्रथितैः, अनल्पैः, नीलोत्पलैः, ध्वननैः= अ, नपुं, ३.३, भिस्, अतो हिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वलयितः, कण्ठः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, ६.१, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
नाथ= अ, पुं, १.१ सम्बोधनम्, सुँ,एङ्ह्रस्वाद् सम्बुद्धेः
संवर्त-मेघ-वसतिम्= इ, स्त्री,२.१, अम्, प्रथमयोः पूर्वसवर्णः
तदन्तः, इव= अव्ययम्
तत्-निकटगैः, मेघ-डिम्भैः= अ, पुं, ३.३, भिस्, अतो हिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
आभाति=आङ्+भा, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
निश्चित्य= नि+चित्, ल्यबन्तः
मौक्तिक-गुण-ग्रथितैः=मौक्तिकानां गुणः ६तत्, तेन ग्रथितम् ३तत्, तैः
अनल्पैः= न अल्पम्, तैः नञ्तत्पुरुषः
नीलोत्पलैः= नीलम् उत्पलम्, तैः कर्मधारयः
संवर्त-मेघ-वसतिम्= संवर्तस्य मेघः ६तत्, तस्य वसतिः, तम्
मेघ-डिम्भैः= मेघस्य डिम्भः, तैः ६तत्