| व्याकरणांशाः |
| मूलम् | | | | |
| नाथ त्वदीयमकलङ्कमिमं मुखेन्दुमापीय तृप्यति सदा वसुधा यतस्ते । |
| तेनैव किं नवसुधारसगोचरोऽभूदेन्दुः कलङ्कमलिनीकृतमध्यभागः ॥८६॥ |
| पदच्चेदः | | | | | |
| नाथ, त्वदीयम्, अकलङ्कम्, इमम्, मुखेन्दुम्, आपीय, तृप्यति, सदा, वसुधा, यतः, ते, तेन, एव, किम्, नव-सुधा-रस-गोचरः, अभूत्, इन्दुः, कलङ्क-मलिनी-कृत-मध्य-भागः |
| सन्धयः | | | | | |
| इमम्, किम्= मोऽनुस्वारः |
| यतः+ते= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः |
| तेन+एव= वृद्धिरेचि |
| गोचरः+अभूत्= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति |
| अभूत्+इन्दुः= झलां जशोऽन्ते |
| इन्दुः+कलङ्क= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च |
| कलङ्क-मलिनी-कृत-मध्य-भागः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| आकाङ्क्षा-अन्वयः | | | | |
| नाथ! सदा वसुधा यतः त्वदीयम् अकलङ्कम् इमम् मुखेन्दुम् ते आपीय तृप्यति तेन एव कलङ्क-मलिनी-कृत-मध्य-भागः इन्दुः नव-सुधा-रस-गोचरः अभूत् किम् |
| Translation | | | | |
| Oh Lord! The earth drinking constantly from Your immaculate face, is sated. Is that the reason that the blemish-filled moon has reinvented himself with new ambrosia (also= his ambrosia is not drunk by the earth!) |
| सुबन्तप्रक्रिया | | | | |
| नाथ = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः |
| त्वदीयम्, मुखेन्दुम्, अकलङ्कम् = अ/इ, पुं, २.१, अम्, अमि पूर्वः |
| इमम्= इदम्, पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, दश्च, अमि पूर्वः |
| सदा, यतः, किम् , एव= अव्ययम् |
| वसुधा= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल् |
| ते = युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य |
| तेन= तद्, नपुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, आद्गुणः |
| नव-सुधा-रस-गोचरः, कलङ्क-मलिनी-कृत-मध्य-भागः, इन्दुः= अ/अ/इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| तिङन्तप्रक्रिया | | | | |
| तृप्यति= तृप्, दिवादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम् |
| अभूत्= भू, भ्वादिः, परस्मैपदी, लुङ्, प्रथमपुरुषः, एकवचनम् |
| समासाः, तद्धिताः, कृदन्ताः | | | |
| त्वदीयम्= तव इदम् (तद्धितः) |
| अकलङ्कम्= न कलङ्कम् यस्य सः, तम् नञ् बहुव्रीहिः |
| मुखेन्दुम्= मुखम् इन्दुरिव, तम् = उपमानोत्तरपदकर्मधारयः |
| आपीय= आङ्+पिब्, ल्यबन्तः |
| नव-सुधा-रस-गोचरः= सुधायाः रसः ६तत्, नवः रसः, कर्मधारयः, रसेन सह गोचरः ३तत् |
| कलङ्क-मलिनी-कृत-मध्य-भागः= कलङ्केन मलिनीकृतः ३तत्, कृतः मध्यः भागः=कर्मधारयः, भागः यस्य सः बहुव्रीहिः |