Monday, February 5, 2024

Shloka 85 - Sri Varadarajastava



        Click on the image to open:

पक्षद्वयक्रशिमपोषविभाव्यमानचान्द्रायणव्रतनिषेवण एव नित्यम् ।
कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ॥८५॥
T:  Oh Lord Śrī Varadarāja, also called Upendra, the moon in his Cāndrāyaṇa is seen to pass through waning and waxing during the resepctive Kṛṣṇa Śukla fortnights, as he undertakes the severe austerity (Tapas/Vrata) constantly circumambulating the heavens (Meru) in the hope of gaining the lustre to compete with the luminosity of Your face. 
Explanation: Chandra or moon undertakes the severe austerity (Tapas/Vrata) during the dark fortnight by reducing by one morsel his food night after night , and thus loses weight/size. He increases his food intake by a morsel daily during the bright fortnight. This type of Vrata is called Cāndrāyaṇa. The poet decides that the moon waxes and wanes as he observes this Cāndrāyaṇa Vrata.  The moon is also seen circumambulating the Meru peak at the centre of heavens. The motivation for this penance is the moon's desire to acquire lustre to compete with the radiance of Śrī Varadarāja's face. This is the figurative interpretation of the poet using Utprekṣā. Since Meru is also described as the abode of the gods or a temple, the moon's going round it is circumambulation in prayer as a part of this Vrata, surmises the poet.

व्याकरणांशाः
मूलम्
पक्षद्वयक्रशिमपोषविभाव्यमानचान्द्रायणव्रतनिषेवण एव नित्यम् ।
कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ॥८५॥
पदच्चेदः
पक्ष-द्वय-क्रशिम-पोष-वि-भाव्य-मान-चान्द्रायण-व्रत-निषेवणः, एव, नित्यम्, कुर्वन्, प्रदक्षिणम्, उपेन्द्र, सुरालयम्, ते, लिप्सुः, मुख-अब्ज-रुचिम्, एषः, तपस्यति, इन्दुः
सन्धयः
चान्द्र+अयण, मुख-अब्ज, तपस्यति+इन्दुः= अकः सवर्णे दीर्घः
सुरालयम्= मोऽनुस्वारः
निषेवणः+एव= ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, हलि सर्वेषाम्
लिप्सुः+मुख-अब्ज-रुचिम्= ससजुषो रुः
एषः+तपस्यति= एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
इन्दुः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
उपेन्द्र! इन्दुः ते मुख-अब्ज-रुचिम् लिप्सुः पक्ष-द्वय-क्रशिम-पोष-वि-भाव्य-मान-चान्द्रायण-व्रत-निषेवणः नित्यम् एव सुरालयम् प्रदक्षिणम् कुर्वन् एषः तपस्यति
Translation
Oh Lord Upendra! The moon, coveting the lustre of Your lotus face, each fortnight waning and waxing through his Cāndrāyaṇa austerity, daily circumambulates the abode of the gods is indeed doing this penance!
सुबन्तप्रक्रिया
पक्ष-द्वय-क्रशिम-पोष-वि-भाव्य-मान-चान्द्रायण-व्रत-निषेवणः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एव, नित्यम्= अव्ययम्
कुर्वन्= त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थाने चऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
प्रदक्षिणम्, सुरालयम्= अ, पुं, २.१, अम्, अमि पूर्वः
उपेन्द्र= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
ते= युष्मद्, ६.१, ङस्, अन्वादेशे तमयावेकवचने
लिप्सुः, इन्दुः= उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुख-अब्ज-रुचिम्= इ, स्त्री, २.१, अम्, अमि पूर्वः
एषः= एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, आदेशप्रत्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
तपस्यति= तपः चरति , भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम् ( ३.१.१५
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः )
समासाः, तद्धिताः, कृदन्ताः
पक्ष-द्वय-क्रशिम-पोष-वि-भाव्य-मान-चान्द्रायण-व्रत-निषेवणः= पक्षयोः द्वयम् (द्विगुः), पक्षद्वये क्रशिमश्च पोषश्च क्रशिमपोषौ (द्वन्द्वः) ७तत्, तेभ्यां विभाव्यमानः ३तत्, चन्द्रायणस्य व्रतम् ६ तत्, व्रत निषेवणः श्च कर्मधारयः
प्रदक्षिणम्= प्र+दक्ष्णः प्रादिः, तम्
उपेन्द्र= उप इन्द्रः गतिसमासः, हे
सुरालयम्= सुराणाम् आलयः, तम् ६तत्