Sunday, February 25, 2024

Shloka 105 - Sri Varadarajastava


   Click on the image to open:

       आपादमाचिकुरभारमशेषमङ्गमानन्दवृन्दलसितं सुदृशामसीमम् । 
अन्तर्मम स्फुरतु सन्ततमन्तरात्मन् अम्भोजलोचन तव श्रितहहस्तिशैलम् ॥ १०५॥
T: Oh the indwelling Lord Hari Śrī Varadarāja, filling with supreme bliss both realised souls and beautiful young damsels, occupying Hastigiri hill, divinely lustrous from the tip of Your feet to the abundant locks of hair on Your crest, may Your entire form always sparkle and shine in my inner world!
Explanation: Beginning with the Lord's feet, the poet has described every aspect and feature of the divine form of Śrī Varadarāja in this poem. Now he prays that the Lord's complete form -divine, most auspicious, giving supreme knowledge of the Self- may be always revealed within his inner mindscape; the form that gives the highest bliss to realised souls may most graciously be shining within his mind always. Thus, the poet concludes this glorious prayer, Śrī Varadarājastava.

 || इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभ-
श्रीमदद्वैतविद्याचार्य-श्रीविश्वजिद्याजि-
श्रीरङ्गराजाध्वरिवरसूनुनाश्रीमदप्पय्यदीक्षितेन 
कृतः श्रीवरदराजस्तवः सम्पूर्णः
Thus is concluded the Śrī Varadarājastava composed 
by the illustrious son of Śrī Raṅgarājādhvari, 
holding the title of Śrīviśvajit-yāji, 
preceptor of Śrīmat-Advaita, 
born as the Kaustubha gem in 
the illustrious ocean of the lineage of 
Sage Śrīmat Bharadvāja   ||
🌺🌺🌺

व्याकरणांशाः
आपादमाचिकुरभारमशेषमङ्गमानन्दवृन्दलसितं सुदृशामसीमम् ।
अन्तर्मम स्फुरतु सन्ततमन्तरात्मन् अम्भोजलोचन तव श्रितहस्तिशैलम् ॥ १०५॥
पदच्चेदः
आ-पादम्, आचिकुर-भारम्, अशेषम्, अङ्गम्, आनन्द-वृन्द-लसितम्, सुदृशाम्, असीमम्, अन्तर्, मम, स्फुरतु, सन्ततम्, अन्तरात्मन्, अम्भोज-लोचन, तव, श्रित-हस्ति-शैलम्
सन्धयः
लसितम्=मोऽनुस्वारः
अन्तर्+मम, अन्तर्+आत्मन्= वर्णमेलनम्
आकाङ्क्षा-अन्वयः
अन्तरात्मन् अम्भोज-लोचन! तव श्रित-हस्ति-शैलम् आ-पादम्,आचिकुर-भारम्, सुदृशाम् आनन्द-वृन्द-लसितम् अङ्गम् असीमम् अशेषम् मम अन्तः सन्ततम् स्फुरतु
Oh Indwelling Paramātma, the Lotus-eyed Lord! May Your form resident on the Hastiśaila hill, from Your feet to the ends of Your luscious hair on Your crest, giving supreme delight to doe-eyed damsels as well as enlightened souls, limitless, complete, and every part of it- may it alsways shine within my being!
सुबन्तप्रक्रिया
आ-पादम्,आचिकुर-भारम्, अशेषम्, असीमम्, आनन्द-वृन्द-लसितम्, अङ्गम्, श्रित-हस्त-शैलम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
सुदृशाम्= श्, पुं/स्त्री, ६.३, आम्, वर्णमेलनम्
अन्तः, सततम्= अव्ययम्
मम, तव= युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
अन्तरात्मन्= न्, पुं, १.१ सम्बोधनम्, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, न ङीसम्बुध्योः
अम्भोज-लोचन= अ, पुं, १.१, सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
स्फुरतु= स्फुर्, तुदादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
आ-पादम्=पादेन आरभ्य = तद्धितः
आचिकुर-भारम्= चिकुरस्य भारः ६तत्, तत्पर्यन्तम् तद्धितः
अशेषम्= यस्य शेषः नास्ति, तत्
आनन्द-वृन्द-लसितम्= आनन्दस्य वृन्दम् ६तत्, तत् लसितम् येन तत्, ३ तत्
सुदृशाम्= सुष्टु दृश् (कर्मधारयः) यस्य सः/यस्याः सा, तेषाम्, बहुव्रीहिः
असीमम्= सीमा नस्ति यस्य, तत्, बहुव्रीहिः
अन्तरात्मन्= आत्मनि अन्तः निविष्टन् ७तत्
अम्भोज-लोचन= अम्भोजमिव लोचनम् यस्य सः, उपमानबहुव्रीहिः
श्रित-हस्ति-शैलम्= श्रितः हस्तिरिव शैलः (कर्मधारयः) येन तत् ३बहुव्रीहिः