Friday, February 16, 2024

Shloka 96 - Sri Varadarajastava






        Click on the image to open:

       आतन्वतामवयवेषु गतागतानि युक्तात्मनां वरद यौवचक्षुषां च ।     विश्रान्तिभूर्विधुकरप्रकरावदाता मन्दस्मितच्छविरियं तव मां पुनातु॥ ९६॥ 
T:  Oh  Lord, Śrī Varadarāja, the minds of the Yogis and the eyes of young damsels dart here and there within Your form. For them all, the resting place is Your cooling, fulfilling smile that is white and radiant like moonlight. May that protect me! 
Explanation: As the minds of the meditator Yogis are constantly engrossed in the Lord's form, they are moving about all over the Lord's form. Similarly, the eyes of the love-stricken damsels are constantly hovering all over the Lord's form, delighting in its beauty.  These Yogis' minds and damsels' eyes both need a suitable place for resting once in a while.  That place is the Lord's delightful smile. That smile is lustrous white like the rays of moonlight.  The poet pleads that the smile may protect him. This is Upamālaṅkāra.

व्याकरणांशाः
मूलम्
तन्वतामवयवेषु गतागतानि युक्तात्मनां वरद यौवचक्षुषां च ।
विश्रान्तिभूर्विधुकरप्रकरावदाता मन्दस्मितच्छविरियं तव मां पुनातु॥ ९६॥
पदच्चेदः
तन्वताम्, अवयवेषु, गत-आगतानि युक्त-आत्मनाम्, वरद, यौव-चक्षुषाम्, च, विश्रान्तिभूः, विधुकर-प्रकर-अवदाता मन्द-स्मित-छविः इयम्, तव, माम्, पुनातु
सन्धयः
गत-आगतानि, युक्त-आत्मनाम्, प्रकर-अवदाता= अकः सवर्णे दीर्घः
युक्त-आत्मनाम्, यौव-चक्षुषाम्, इयम्, माम् = मोऽनुस्वारः
विश्रान्तिभूः+विधुकर, छविः+इयम्=ससजुषो रुः
स्मित-छविः= छे च, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
वरद! युक्त-आत्मनाम् यौव-चक्षुषाम् तव अवयवेषु गत-आगतानि तन्वताम् च विश्रान्तिभूः विधुकर-प्रकर-अवदाता इयम् मन्द-स्मित-छविः माम् पुनातु
Oh Lord Varada! The minds of those meditators focussed in the Atman, the of those damsels attracted to Your beauty, roaming constantly all over Your form - their resting place is this moonlight-like white, lustrous, cool smile of Yours, and may it protect me!
सुबन्तप्रक्रिया
तन्वताम् = त्, पुं, ६.३, आम्
अवयवेषु= अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
गत-आगतानि युक्त-आत्मनाम्= न्, पुं, ६.३, आम्
वरद= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात्सम्बुद्धेः
यौव-चक्षुषाम्= अ, पुं, ६.३, आम्
च = अव्ययम्
विश्रान्तिभूः= ऊ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
विधुकर-प्रकर-अवदाता मन्द-स्मित-छविः =इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
इयम्= इदम्, स्त्री, १.१, सुँ, इदमो मः, यः सौ, हल्ङ्याब्भ्यो दीर्घात्सुतिस्यप्क़्रितं हल्
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
माम्= अस्मद्, २.१, अम्, ण्गे प्रथमोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्णे दीर्घः, अमि पूर्वः
तिङन्तप्रक्रिया
पुनातु= पुन्, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
गत-आगतानि = गतश्च आगतश्च तयोः समाहारः, तानि
युक्त-आत्मनाम्= आत्म्मनि युक्तः तेषाम् = ७तत्
वरद= वरं ददाति, हे, उपपदसमासः
यौव-चक्षुषाम्= युवस्य भावः, तद्धितः, यौव्नां चक्षुः, तेषाम् ६ तत्
विश्रान्तिभूः= विश्रान्तेः भूः ६तत्
विधुकर-प्रकर-अवदाता = विधोः करः ६तत्, तस्य प्रकरः ६तत्, तस्य अवदाता ६तत्
मन्दं स्मितं यस्य सः, मन्दस्मितः बहुव्रीहिः, तस्य छविः=६तत्