Wednesday, February 7, 2024

Shloka 87 - Sri Varadarajastava


        Click on the image to open:

आश्रित्य नूनममृतद्युतयः पदं ते देहक्षये विधृतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥८७॥
T:  Oh Lord Śrī Varadarāja, every month, the many different moons that shine, at their end, take refuge in Your feet, traverse the path to their liberation, after placing in their friend, viz. Your face, their accumulated good Puṅya of giving delight through their enticing appearance and attain to their final abode, i.e. the sun.

Explanation: The idea here is that each moon, at the time of the Amāvāsyā (new moon!) disappears into the sun giving place to the birth of the new moon. Thus, every month, we are visited by a new moon, according to this belief.  Men are supposed according to the Śāstrās to hand over the accumulated merits or Puṅyas of their good deeds in their earthly sojourn and proceed to the sphere of the sun for salvation. This idea is also used here. Since the face of Lord Śrī Varadarāja appears like the moon, the face is a friend of the moon. So, each month, before attaining the sun, each moon hands over to the Lord's face his Puṅya of giving delight through his natural alluring appearance. Thus, the Lord's face becomes a million times lustrous and enticing over time. This is Utprekṣālaṅkāra. 

"नवो नवो भवति जायमानः" "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यम्" such declarations of the Vedas should be recalled here. 

व्याकरणांशाः
मूलम्
आश्रित्य नूनममृतद्युतयः पदं ते देहक्षये विधृतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥८७॥
पदच्चेदः
आश्रित्य, नूनम्, अमृत-द्युतयः, पदम्, ते, देह-क्षये, विधृत-दिव्य-पद-अभि-मुख्याः, लावण्य-पुण्य-निचयम्, सुहृदि, त्वत्, आस्ये, विन्यस्य, यान्ति, मिहिरम्, प्रति-मास-भिन्नाः
सन्धयः
विधृत-दिव्य-पद-अभ-मुख्याः, प्रति-मास-भिन्नाः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अमृत-द्युतयः+पदम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
पद+अभि-मुख्याः= अकः सवर्णे दीर्घः
पदम्, लावण्य-पुण्य-निचयम्= मोऽनुस्वारः
त्वत्+आस्ये= झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
देह-क्षये अमृत-द्युतयः प्रति-मास-भिन्नाः विधृत-दिव्य-पद-अभि-मुख्याः ते पदम् नूनम् आश्रित्य लावण्य-पुण्य-निचयम् सुहृदि त्वत् आस्ये विन्यस्य मिहिरम् यान्ति
Translation
Indeed, at the end of their life, the ambrosiac, lustrous, moons, month after month, seeking to attain their abode of salvation, surrender to Your feet, and hand over their accumulated Puṅyas of giving delight through their enticing appearance to Your moon-like face, their confidant and friend, and attain to their abode in the sun.
सुबन्तप्रक्रिया
नूनम् = अव्ययम्
अमृत-द्युतयः= इ, स्त्री, १.३, जस्, जसि च, एचोऽयनायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पदम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
ते= युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
देह-क्षये= अ, पुं, ७.१, ङि, आद्गुणः
विधृत-दिव्य-पद-अभ-मुख्याः, प्रति-मास-भिन्नाः= आ, स्त्री, १.३, जस्, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
लावण्य-पुण्य-निचयम्, मिहिरम्= अ, पुं, २.१, अम्, अमि पूर्वः
सुहृदि= द्, पुं, ७.१, ङि, वर्णमेलनम्
त्वदास्ये=अ, नपुं, ७.१, ङि, वर्णमेलनम्
तिङन्तप्रक्रिया
यान्ति= या, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
आश्रित्य, विन्यस्य= आङ्+श्रि, ल्यबन्तः, वि॒+न्यस्, ल्यबन्तः
अकलङ्कम्= न कलङ्कम् यस्य सः, तम् नञ् बहुव्रीहिः
अमृत-द्युतयः= अमृतस्य द्युतिः, ६तत्, द्युतिः यस्य सः, ते बहुव्रीहिः
देह-क्षये= देहस्य क्षयः, तस्मिन्, ६तत्
विधृत-दिव्य-पद-अभि-मुख्याः= विधृतं दिव्यं पदम् कर्मधारयः, तम् अभि+मुख्यः २तत्, ते
लावण्य-पुण्य-निचयम्= लावण्यस्य पुण्यम् ६तत्, तस्य निचयम्, तम्, ६तत्