व्याकरणांशाः |
मूलम् | | | | |
देहाद्वदन्ति जननं मुनयस्तिलानां देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् । |
नारायणैतदुचितं प्रकटीकरोति नासाभिधानमिह दिव्यतिलप्रसूनम् ॥९९॥ |
पदच्चेदः | | | | | |
देहात्, वदन्ति, जननम्, मुनयः तिलानाम्, देव- इन्द्र-वन्द्य-चरण-अम्बुज, तावकीनात्, नारायण, एतत्, उचितम्, प्रकटी-करोति, नास-अभिधानम्, इह, दिव्य-तिल-प्रसूनम् |
सन्धयः | | | | | |
देहात्+वदन्ति, एतत्+उचितम्= झलां जशोऽन्ते |
जननम्, तिलानाम्,उचितम्= मोऽनुस्वारः |
मुनयः+तिलानाम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः |
चरण+अम्बुज, नास-अभिधानम्= अकः सवर्णे दीर्घः |
नारायण+एतत्= वृद्धिरेचि |
आकाङ्क्षा-अन्वयः | | | | |
देव-इन्द्र-वन्द्य-चरण-अम्बुज! नारायण! तावकीनात् देहात् तिलानाम् जननम् मुनयः वदन्ति| इह एतत् नास-अभिधानम् दिव्य-तिल-प्रसूनम् उचितम् प्रकटी-करोति |
Oh! One whose lotus feet are worshipped by even Devendra,Nārāyaṇa, the sages affirm that from Your body, out of the Seasame seeds manifested therein, came this creation. In this context, the comely shape of Your nose like a Sesame flower testifies this theory since Your exhaled breath brings forth all creation! |
सुबन्तप्रक्रिया | | | | |
देहात्, तावकीनात् = अ, पुं, ५.१, ङसिँ, टाण्गसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः |
जननम् |
मुनयः तिलानाम् |
देव- इन्द्र-वन्द्य-चरण-अम्बुज, नारायण = अ, पुं, १.१ सम्बोधनम् , एङ्ह्रस्वात् सम्बुद्धेः |
एतत् = एतद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने |
उचितम्, इह= अव्ययम् |
नास-अभिधानम्, दिव्य-तिल-प्रसूनम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि उर्वः |
तिङन्तप्रक्रिया | | | | |
वदन्ति= वद्, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, बहुवचनम् |
प्रकटी-करोति= कृ, तनादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम् |
समासाः, तद्धिताः, कृदन्ताः | | | |
देव-इन्द्र-वन्द्य-चरण-अम्बुज= देवानाम् इन्द्रः ६तत्, तेन वन्द्यम् ३तत्, वन्द्यम् चरणम् कर्मधारयः, चरणम् अम्बुजमिव उपमानोत्तरपदकर्मधारयः, -अम्बुजम् यस्य सः, हे, समानाधिकरणबहुव्रीहिः |
तिलानाम्= तव इदम् युष्मद्'खञ्'(४-३-१) तद्धितः |
नारायण= नारा जलं अयनं स्थानं यस्य सः, बहुव्रीहिः |
प्रकटी-करोति= नामधातुः |
नास-अभिधानम्= नासस्य अभिधानम् ६तत् |
दिव्य-तिल-प्रसूनम्= दिव्यं तिलेन प्रसूनम् (३तत्) कर्मधारयः |