Monday, February 12, 2024

Shloka 92 - Sri Varadarajastava




        Click on the image to open:

          बिम्बस्तवायमधरः प्रतिबिम्बनेन युक्तं सदा युवतिमानसदर्पणेषु ।             
बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वमेतावतैव न तु तुच्छफलोपमानात् ॥९२॥
T:  Oh Īśvara Śrī Varadarāja, forever mirrored in the minds of young damsels, Your lips are aptly termed as Bimbas. Thus, poets call you Bimbādhara. But fie on any implied comparison with the humble fruit Bimba!
Explanation: Poets often describe the Lord as Bimbādhara. Bimba is a humble wild berry fruit. But this poet scoffs at that comparison and says the real reason for the use of the word Bimba (literally a reflection or image) is that the Lord's lips are always mirrored in young damsels' minds and hearts lovingly. Thus the word means "lips mirrored in their hearts" and not "lips that resemble the Bimba fruit". The poet says it is inappropriate to compare the Lord's divinely bewitching lips to some humble wild fruit.

व्याकरणांशाः
मूलम्
बिम्बस्तवायमधरः प्रतिबिम्बनेन युक्तं सदा युवतिमानसदर्पणेषु ।
बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वमेतावतैव न तु तुच्छफलोपमानात् ॥९२॥
पदच्चेदः
बिम्बः, तव, अयम्, अधरः, प्रति-बिम्बनेन, युक्तम्, सदा, युवति-मानस-दर्पणेषु, बिम्ब-अधरः, कविभिः, ईश्वर, वर्ण्यसे, त्वम्, एतावता, एव, न, तु, तुच्छ-फल-उपमानात्
सन्धयः
बिम्बः+तव= ससजुषो रुः , खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
तव+अयम्=अकः सवर्णे दीर्घः
अधरः, बिम्बाधरः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
युक्तम्= मोऽनुस्वारः
कविभिः+ईश्वर= ससजुषो रुः
एतावता+एव= वृद्धिरेचि
फल+उपमानात्= आद्गुणः
आकाङ्क्षा-अन्वयः
ईश्वर !तव अयम् अधरः सदा युवति-मानस-दर्पणेषु प्रति-बिम्बनेन युक्तम् बिम्बः । कविभिः त्वम् बिम्ब-अधरः वर्ण्यसे एतावता एव न तु तुच्छ-फल-उपमानात् ।
Oh, Lord, This lovely lips of Yours are mirrored in the hearts of damsels out of their love and hence is appropriately called Bimba. When poets call Your lips Bimbādhara, they are referring to this alone, not as a simile to that humble wild berry Bimba.
सुबन्तप्रक्रिया
बिम्बः, अधरः, बिम्ब-अधरः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्ब्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
अयम्= इदम्, पुं, १.१, सुं॒, इदमो मः, इदोऽय् पुंसि, हल्ङ्याभ्यो दीर्घात् सुतिस्यप्कृतं हल्
प्रति-बिम्बनेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
युक्तम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
सदा, एव, न, तु= अव्ययम्
युवति-मानस-दर्पणेषु= अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
कविभिः= इ, पुं, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ईश्वर= अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
त्वम् = युष्मद्, १.१, सुँ, त्वाहौ सौ, अतो गुणे, शेषे लोपः
एतावता= त्, नपुं, ३.१, टा, वर्णमेलनम्
तुच्छ-फल-उपमानात् = अ, ५.१, ङसिँ, टाङसिण्गसामिनात्स्याः, अकः सवर्ने दीर्घः
तिङन्तप्रक्रिया
वर्ण्यसे= वर्ण्, चुरा दिः, कर्मणि, आत्मनेपदी, लट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रति-बिम्बनेन= प्रति बिम्बति, अनेन प्रादिसमासः
युवति-मानस-दर्पणेषु= युवत्याः मानसः ६तत्, तदेव दर्पणम् अवधारणोत्तरपदम्, तेषु
बिम्ब-अधरः= बिम्ब इव अधरः उपमानपूर्वपदम् कर्मधारयः
तुच्छ-फल-उपमानात् = तुच्छं फलम् कर्मधारयः, तस्य उपमानः ६तत्, तस्मात्