Tuesday, February 20, 2024

Shloka 100 - Sri Varadarajastava


        Click on the image to open:


       नेत्रे  तव क्व भगवन् क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेदः।      सर्वात्मनस्तव समाधिकवस्त्वलाभादाकाशवत् स खलु सर्वगतत्वमाह ॥१००॥
T: Oh Bhagavān, where are Your eyes (with their incomparable beauty), and where is the lotus, indeed for any comparison to be justified!? And yet, The Vedas make this comparison. You are the Universal Spirit, and, unable to find any comparable phenomenon, equal or better, have not the Vedas settled for the statement that Your immanence is like the sky (Ākāśa)!?
Explanation:  कप्यासं पुण्डरीकमेवमक्षिणी  states the Chāndogya Upaniṣad, i.e. the Lord's eyes resemble the red lotus. But here the poet avers that there is simply no comparison possible between an earthly lotus and the Lord's ethereal eyes. For example, when we want to say the Lord is immanent, omnipresent, the Universal Spirit, we can't find a suitable simile. This is beacuse nothing matches or excels the Lord in this attribute.  So the Veda settles for some comparison to be done with it. So the Veda says the Lord is immanent like the sky. The poet argues that each sky or Ākāśa is confined to that particular universe, whereas the Lord is encompassing all the universes ever created. We need to understand similarly the understatement about the Lord's eyes in this lotus simile. This Alaṅkāra is employed in the first half of the verse, and is called Viṣamopālaṅkāra.  विषमं वर्ण्यते यत्र घटना नानुरूपयोः is its definition ( by saying this can't be compared with that...we convey the quality!)

व्याकरणांशाः
मूलम्
नेत्रे तव क्व भगवन् क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेदः।
सर्वात्मनस्तव समाधिकवस्त्वलाभादाकाशवत् स खलु सर्वगतत्वमाह ॥१००॥
पदच्चेदः
नेत्रे, तव, क्व, भगवन्, क्व, च, पुण्डरीकम्, ब्रूते, तयोः,तदुपमानम्, अथ+अपि, वेदः, सर्वात्मनः, तव, सम- अधिकवस्तु- अलाभात्, आकाशवत्, सः, खलु, सर्वगतत्वम्, आह
सन्धयः
पुण्डरीकम्=मोऽनुस्वारः
तयोः+तदुपमानम्, सर्वात्मनः+तव=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
सम+अधिकवस्तु, अथ+अपि= अकः सवर्ने दीर्घः
अधिकवस्तु+अलाभात्= इको यणचि
सः+खलु= एतत्तदोः सुलोपोकोरनञ्समासे हलि
आकाङ्क्षा-अन्वयः
भगवन् ! तव नेत्रे क्व, पुण्डरीकम् क्व च। ब्रूते तयोः तदुपमानम् अथापि वेदः। सम-अधिकवस्तु-अलाभात् तव सर्वात्मनः आकाशवत् सः खलु। सर्वगतत्वम् आह
Oh Bhagavān, where are Your eyes with their incomparable beauty, and where is the lotus? And yet, the Veda states this comparison. Unable to find anything equal or superior to Your universal pervasive Spirit, the Veda simply states You are like the sky (Ākāśa).
सुबन्तप्रक्रिया
नेत्रे= अ, नपुं, १.२, औ, नपुंसकाच्च, लशक्वतद्धिते, आद्गुणः
तव= युष्मद्, युषम्दस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
क्व, च, अथ, अपि, खलु = अव्ययम्
भगवन् = त्, पुं, १.१ सम्बोधनम्, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्क्रितं हल्, संयोगान्तस्य लोपः
पुण्डरीकम्, तदुपमानम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तयोः= तद्, पुं, ६.२, ओस्, त्यदादीनामः, अतो गुणे, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वेदः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानतयोर्विसर्जनीयः
सर्वात्मनः=न्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सम- अधिकवस्तु- अलाभात्= अ, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दॉर्घः, झलां जशोऽन्ते, वाऽवसाने
आकाशवत्= त्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
सः= तद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोःसः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सर्वगतत्वम्= अ, नपुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
ब्रूते= ब्रू, अदादिः, आत्मनेपदि (उभय), लट्, प्रत्मपुरुषः, एकवचनम्
आह=ब्रू, विशेषः रूपः, अदादिः, आत्मनेपदि (उभय), लट्, प्रत्मपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
तदुपमानम्= तस्य उपमानम् ६तत्
सर्वात्मनः= सर्वस्य आत्मा, तस्य, ६तत्
सम- अधिकवस्तु- अलाभात्= समः वा अधिकः, द्वन्द्वः, समाधिकः वस्तुः कर्मधारयः, तस्य न लाभः, नञ् ६ तत्पुरुषः, तस्मात्
आकाशवत्= आकाशस्य भावः तद्धितः
सर्वगतत्वम्= सर्वं गतः २तत्, तस्य भावः तद्धितः