Wednesday, February 21, 2024

Shloka 101 - Sri Varadarajastava


   Click on the image to open:

       साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।     
तस्यापि तां समधिकां तनुते यदन्यद् दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥१०१॥
T: Oh Lord, foolishly considering that it rivals the beauty of Your eyes, the lotus rises from the pond, only for its uppityness to be nipped by Your left eye. But then, Your other, right eye, grants the lotus back its lustre. Oh Lord who is the enemy of the evil demons, the reason for this has to be its grace.
Explanation: The left eye of the Supreme Lord is stated to be Candra or the moon in the scriptures. The right eye is the sun. Whereas the moon robs the lotus of its lustre (it closes up on moonrise), the sun rises and grants back the lotus its lustre at daybreak. The reason, the poet says here, is Dākṣiṇya, punning on the word as it means both "the right-sidedness (eye)" and, also, "the quality of generous forgiveness."

व्याकरणांशाः
मूलम्
साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।
तस्यापि तां समधिकां तनुते यदन्यद् दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥१०१॥
पदच्चेदः
साम्य-भ्रमात्, अविनयेन, सम्-उन्नतस्य, सव्यम्, तव, अक्षि, हरति, श्रियम्,अम्बुजस्य, तस्य, अपि, ताम्, सम्-अधिकाम्, तनुते, यत्, अन्यत्, दाक्षिण्यमम्, एव दनुज-अहित, तत्र, मूलम्
सन्धयः
सव्यम्, ताम्, सम्-अधिकाम्= मोऽनुस्वारः
साम्य-भ्रमात्+अविनयेन, यत्+अन्यत्+दाक्षिण्यम्= झलां जशोऽन्ते
तव+अक्षि= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
दनुज-अहित! साम्य-भ्रमात् अविनयेन सम्-उन्नतस्य अम्बुजस्य तव सव्यम् अक्षि श्रियम् हरति। यत् अन्यत् तस्य अपि सम्-अधिकाम् ताम् (श्रियम्) तनुते एव तत्र दाक्षिण्यमम् मूलम्
Oh Lord inimical to evil demons, presumptuous of equality, the lotus raises itself only to be robbed of its lustre by Your left eye. But then, Your other eye restores and expands the lustre of lotus, which can be explained only by its quality of generosity.
सुबन्तप्रक्रिया
साम्य-भ्रमात्= अ, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
अविनयेन= अ, नपुं, ३.१, टा, ङसिँ, टाङसिङसामिनात्स्याः, आद्गुणः
सम्-उन्नतस्य, अम्बुजस्य= अ, णपुं, ङस्, टाङसिङसामिनात्स्याः
सव्यम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तव= युष्मद्, युष्मद्स्मद्भ्यां ङसोऽश्, तवममु ङसि, अतो गुणे, शेषे लोपः
अक्षि= इ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
श्रियम्= ई, स्त्री, २.१, अम्, अचिश्नुधातुभ्रुवां य्वोरियङुवङौ
तस्य= तद्, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
अपि, यत्, तत्र, एव = अव्ययम्
ताम् = तद्, स्त्री, २.१, अम्, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, अमि पूर्वः
सम्-अधिकाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
अन्यत् = अन्यद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
दाक्षिण्यम्, मूलम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
दनुज-अहित= अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
हरति= हृ, भ्वादिः, परस्मैपदी (उभय), लट्, प्रत्मपुरुषः, एकवचनम्
तनुते= तन्, तनादिः, आत्मनेपदी(उभय), लट्, प्रत्मपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
साम्य-भ्रमात्= साम्यस्य भ्रमः, तस्मात्, ६तत्
अविनयेन= न विनयः, तेन नञ्तत्
सम्-उन्नतस्य= सम्+उद्+नतः कर्तरि क्त कृदन्तः, प्रादि
अम्बुजस्य= अम्बौ जनितम् तस्य ७तत्
सम्-अधिकाम्= सम्यग् अधिका, कर्मधारयः, ताम्
दाक्षिण्यम्= दक्षिणस्य भावः, तम्
दनुज-अहित= दनुजानां अहितः (नञ्) ६तत्