Thursday, February 8, 2024

Shloka 88 - Sri Varadarajastava


        Click on the image to open:


त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्राभङ्गात्ततत्सुषममित्रकरोपक्ऌप्त्या ।
लब्ध्वाऽपि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८८॥
T:  Oh Lord Śrī Varadarāja, the sun steals the glow of beauty from the lotuses by breaking them open (i.e. making them blossom). The sun, also called Mitra, means a friend, and here is a co-conspirator who hands over that glow to the moon through his rays. Thus the moon resembles Your face! But soon, every night, the moon wanes in glow since his glow has been dishonestly acquired like stolen property which soon dwindles. This moral is taught by the moon to the world! 
Explanation: The words Mitra (sun and friend) and Kara ( rays and hand) have been cleverly punned upon by the poet here. The lotuses when closed look like treasure vaults locked up, The sun comes, opens them up, and steals their glow, according to the poet. Being a friend (Mitra) of the moon, he promptly hands over the spoils to him; thus, the moon is aglow on the full moon night. This stolen treasure soon dwindles every night as the moon wanes. This phenomenon of the moon is used by him to teach a moral principle to the world - the gains of dishonesty and stolen property do not last long. The sun has stolen the glow from the lotuses. The moon is enjoying the stolen property but for how long?  This Alankāra is Nidarśanālankāra demonstrating Asadartha accusing the moon. अपरां बोधनं प्राहुः क्रिययासत्सदर्थयोः  is the third type of Nidarśanālankāra.

"नवो नवो भवति जायमानः" "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यम्" such declarations of the Vedas should be recalled here. 
व्याकरणांशाः
मूलम्
त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्राभङ्गात्ततत्सुषममित्रकरोपक्ऌप्त्या ।
लब्ध्वाऽपि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८८॥
पदच्चेदः
त्वद्वक्त्र-साम्यम्, अयम्,अम्बुज-कोश-मुद्रा-भङ्ग-अत्त, तत्सुषम-मित्र-कर-उपक्ऌप्त्या, लब्ध्वा,अपि, पर्वणि, विधुः, क्रम-हीयमानः, शंसति, अनीति-उपचिताम्, श्रियम्, आशुनाशाम्
सन्धयः
त्वद्वक्त्र= झलां जशोऽन्ते
भङ्ग-अत्त, लब्ध्वा+अपि= अकः सवर्णे दीर्घः
शंसति+अनीति+उपचिताम्= इको यणचि
अनीति-उपचिताम्= मोऽनुस्वारः
विधुः, क्रम-हीयमानः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कर+उपक्ऌप्त्या=आद्गुणः
आकाङ्क्षा-अन्वयः
अयम् विधुः अम्बुज-कोश-मुद्रा-भङ्ग-अत्त तत्सुषम-मित्र-कर-उपक्ऌप्त्या त्वद्वक्त्रसाम्यम् लब्ध्वा अपि पर्वणि क्रम-हीयमानः अनीति-उपचिताम् श्रियम् आशुनाशाम् शंसति
This moon, by way of the sun's breaking open the lotus buds to steal their glow and giving it through his rays to his friend,the moon, to anoint himself, achieves a semblance of the lustre of Your face; but even then, since he wanes in glow day after day, he conveys the impermanence of ill-gotten glory that is but transient.
सुबन्तप्रक्रिया
त्वद्वक्त्रसाम्यम् = अ, नपुं, २.१, अतोऽम्, अमि पूर्वः
अयम्= इदम्, पुं, १.१, सुँ, इदमो मः, इदोय् पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
अम्बुज-कोश-मुद्रा-भङ्ग-आत्त- तत्सुषम-मित्र-कर-उपक्ऌप्त्या= इ, स्त्री, ३.१, टा, इको यणचि
लब्ध्वा, अपि= अव्ययम्
पर्वणि= न्, नपुं, ७.१, ङि, अट्कुप्वाङ्नुम्व्यवायेपि
विधुः= उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
क्रम-हीयमानः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अनीति-उपचिताम्, आशुनाशाम् = आ, स्त्री, २.१, अम्, अमि पूर्वः
श्रियम्=ई, स्त्री, २.१, अम्, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ
तिङन्तप्रक्रिया
शंसति= शंस्, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
त्वद्वक्त्र-साम्यम्= तव वक्त्रम् ६तत्, तस्य साम्यम्, तम्, ६तत्
अम्बुज-कोश-मुद्रा-भङ्ग-आत्त- तत्सुषम-मित्र-कर-उपक्ऌप्त्या=अम्बुजस्य कोशः ६तत्, तस्य मुद्रा, ६तत्, मुद्रायाः भङ्गः, ६तत्, तस्मात् आत्ता ५तत्, आत्ता तत्सुषमा/ मित्रस्य करः ६तत्, करेण उपकॢतिः ३ तत्, सुषमायाः उपकॢतिः ६तत्, तया
क्रम-हीयमानः= प्रादि समासः
अनीति-उपचिताम्= न नीतिः अनीतिः नञ् तत्, अनीत्या उपचिता, ताम् ३ तत्
आशुनाशाम्= आशु नाशा, ताम्, गति समासः
लब्ध्वा= लब्ध्, क्त्वान्त, कृदन्तः