Saturday, February 3, 2024

Shloka 83 - Sri Varadarajastava



        Click on the image to open:
वक्त्रेण ते यदभिभूतमभूत्सरोजं तन्नाभिभूतमिति शब्दमवाप्य नूनम् ।
शब्दच्छलादपनिनीषु जनापवादं नाभेरभूत् तव रमाधिप विश्रुतायाः ॥८३॥
T:  Oh Lord Śrī Varadarāja, Consort of Devi Ramā, the lotus lost in the beauty contest to Your face ("Abhibhūta"). But to save its reputation,  it resorted to Śabdacchala (hairsplitting arguments) and established its name as "arose from Your navel" or Nābhībhūta.
Explanation: In the Nyāyaśāstra (Sanskrit theory of logic), Śabdacchala has been defined as wilfully bending the meaning of an argument to achieve a more amenable meaning in one's favour. This form of debate can be illustrated thus. If we say, "this man is "Navakambala" or one who owns a new blanket, the opponent can bend its meaning by interpreting "Nava" as nine, and argue, "This man has not even two blankets, how can he be called "Navakambala" "? This is a classic example of "Navakambala".

In Sanskrit, "Abhibhūta" means defeated. So the lotus has been defeated by the Lord's handsome face in beauty. To reclaim its reputation, the lotus arose from the Lord's navel, and earned the sobriquet "Nābhībhūta". Śabdacchala was effective here since Nābhībhūta can also be split as Na+Abhibhūta="not defeated" as well as "born out of the navel". The poet displays much skill in using Śleṣa. This figure of speech is Hetūtprekṣālaṅkāra.

व्याकरणांशाः
मूलम्
वक्त्रेण ते यदभिभूतमभूत्सरोजं तन्नाभिभूतमिति शब्दमवाप्य नूनम् ।
शब्दच्छलादपनिनीषु जनापवादं नाभेरभूत् तव रमाधिप विश्रुतायाः ॥८३॥
पदच्चेदः
वक्त्रेण, ते, यत्, अभिभूतम्, अभूत्, सरोजम्, तत्, न-अभिभूतम्, इति, शब्दम्, अवाप्य, नूनम्, शब्दच्छलाद्, अपनिनीषु, जन-अपवादम्, नाभेः, अभूत्, तव, रमा-अधिप, विश्रुतायाः
सन्धयः
सरोजम्, जन-अपवादम्= मोऽनुस्वारः
यत्+अभिभूतम्, शब्दच्छलात्+अपनिनीषु= झलाम् जशोऽन्ते
जन+अपवादम्, रमा+अधिप= अकः सवर्णे दीर्घः
नाभेः+अभूत्= ससजुषो रुः
तत्+न-अभिभूतम्= यरोऽनुनासिकेऽनुनासिको वा
शब्द+छलात्= छे च, झलां जशोऽन्ते, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
रमा-अधिप! ते वक्त्रेण यत् सरोजम् अभिभूतम् अभूत् तत् न-अभिभूतम् इति शब्दम् अवाप्य नूनम् शब्दच्छलात् जन-अपवादम् अपनिनीषु तव विश्रुतायाः नाभेः अभूत्
Translation
Oh Lord of Devi Ramā, defeated in beauty by Your face, the lotus resorted to the word Na-abhibhūta= undefeated (also means born in the navel), and using Śabdacchala, took birth in Your famed navel to erase the ignominy of defeat.
सुबन्तप्रक्रिया
वक्त्रेण= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः, अट्कुप्वाङ्नुम्व्यवायेऽपि
ते= युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
यत्, तत्= सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, झलां जशोऽन्ते
अभिभूतम्, सरोजम्, न-अभिभूतम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
जन-अपवादम्, शब्दम्= = अ, पुं, २.१, अम्, अमि पूर्वः
इति, नूनम्= अव्ययम्
शब्दच्छलाद्= अ, नपुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, आद्गुणः
अपनिनीषु= उ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
नाभेः= इ, स्त्री, ५.१, ङसिँँ, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः
तव= युष्मद्, ६.१, ङस्, युश्ःमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
रमा-अधिप= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
विश्रुतायाः= आ, स्त्री. ५.१, ङसिँ, यादापः, अकः सवर्ने दीर्घः
तिङन्तप्रक्रिया
अभूत्= भू, भ्वादिः, परस्मैपदी, लुङ्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
शब्दच्छलाद्= शब्दस्य छलः, तस्मात् ६तत्
अपनिनीषु= अपनयनं इच्छुः यत्= तद्धितः
रमा-अधिप= रमायाः अधिपः, हे ६तत्