Tuesday, February 13, 2024

Shloka 93 - Sri Varadarajastava




        Click on the image to open:

          विद्यामयेषु तव निःश्वसितेष्वपूर्वं विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।           वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः कायप्रभेव लसति स्मितचन्द्रिका ते ॥९३॥
T:  Oh Śrī Varadarāja, the Indwelling Spirit of all, the Vedas are but an expression of Your exhalation. To obtain the highest knowledge from these scriptures, the Goddess of Learning herself, Vāṇī, has made her home in Your face. Like the glow of her body, Your face thus radiates cool moonlight through Your gentle smile. 
Explanation: Goddess Vāṇī, Sarasvatī, shines with a sparkling white glow. The poet now thinks she dwells in the Lord's face. Why? The Ṛgveda, Yajurveda and other sacred scriptures are supposed to have emerged from the Lord's exhaled breath. The testimony is the declaration, यस्य निःश्वसितं वेदाः। So the Goddess of Learning is dwelling in the Lord's face to catch the highest knowledge! Her natural glow has turned into the moonlight-like glow of the Lord's smiling face. This is the poet's Utprekṣā.

व्याकरणांशाः
मूलम्
विद्यामयेषु तव निःश्वसितेष्वपूर्वं विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।
वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः कायप्रभेव लसति स्मितचन्द्रिका ते ॥९३॥
पदच्चेदः
विद्यामयेषु, तव, निःश्वसितेषु, अपूर्वम्, विद्याविशेषम्, इव, शिक्षितुम्, अन्तरात्मन्, वाण्याः, सदा, तव, मुख-अम्बुरुहे, वसन्त्याः, कायप्रभा, एव, लसति, स्मित-चन्द्रिका, ते
सन्धयः
निःश्वसितेषु+अपूर्वम्= इको यणचि
अपूर्वम्= मोऽनुस्वारः
वाण्याः+सदा= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
मुख+अम्बुरुहे= अकः सवर्णे दीर्घः
वसन्त्याः+कायप्रभा= ससजुषो रुः,कुप्वोः ≍क≍पौ च
कायप्रभा+एव= वृद्धिरेचि
आकाङ्क्षा-अन्वयः
अन्तरात्मन्! तव निःश्वसितेषु विद्यामयेषु अपूर्वम् विद्याविशेषम् शिक्षितुम् इव सदा तव मुख-अम्बुरुहे वसन्त्याः वाण्याः कायप्रभा एव ते स्मित-चन्द्रिका लसति
Oh, the Indwelling Spirit of all, Your exhaled breath is the origin of all Vedas, and in order to catch unprecedented, profound knowledge, Vāṇī, the Goddess of Learning, resides in Your face; her bodily glow thus shines as the moonlight of Your smile.
सुबन्तप्रक्रिया
विद्यामयेषु, निःश्वसितेषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
तव= युष्मद्, ६.१, युष्मद्स्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
अपूर्वम्, विद्याविशेषम्= अ, पुं, २.१, अम्, अमि पूर्वः
इव, एव, सदा = अव्ययम्
शिक्षितुम्= शिक्ष्, तुमुन्, अव्ययम्
अन्तरात्मन्= न्, पुं, १.१ सम्बोधनम्, सुँ, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, न ङिसम्बुद्ध्योः
वाण्याः, वसन्त्याः= ई, स्त्री, ६.१, ङस्, आण्नद्याः, आटश्च, इको यणचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुख-अम्बुरुहे= अ, नपुं, ७.१, ङि, आद्गुणः
कायप्रभा, स्मित-चन्द्रिका= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
ते = युष्मद्, ६.१, अन्वादेशे तेमयावेकवचनस्य
तिङन्तप्रक्रिया
लसति= लस्, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
विद्यामयेषु= विद्यया आगतः मयट् तद्धितः, तेषु
अपूर्वम्= न पूर्वं विद्यते यस्य सः, तम् नञ् बहुव्रीहिः
विद्याविशेषम्= विद्यायाः विशेषः, तम् ६तत्
अन्तरात्मन्= 'अन्तरात्मनि निविष्टमन्तरा'
मुख-अम्बुरुहे= मुखम् अम्बुरुहमिव उपमानोत्तरपदकर्मधारयः, तस्मिन्
कायप्रभा= कायस्य प्रभा ६तत्
स्मित-चन्द्रिका= स्मितं चन्द्रिका इव कर्मधारयः