Sunday, February 4, 2024

Shloka 84 - Sri Varadarajastava



        Click on the image to open:

उन्मीलयन् कुमुदमुज्ज्वलयन् गिरीशमुन्मूलयन् विषमवाहभवाभितापम् ।
उद्दीपयन् वरवधूजनतानुरागमुद्द्योतते वरद ते वदनामृतांशुः ॥८४॥
T:  Oh Lord Śrī Varadarāja,  the brilliant moon that is Your face makes the night lotuses blossom, illuminates Lord Shiva, pushes away the burning heat of the sun with his seven horses, and enhances the amorous love of the newlywed grooms and brides. 
Explanation: Chandra or moon is associated with specific attributes. These are mapped by the poet here also to the moon-like face of the Lord. The moon makes Kumuda or night lotus blossom. Another meaning of Ku-muda is making the world happy - an effect of the Lord's face! Girīśa means Śiva who is illumined by the moon, and here, it means the Hastiśaila that is adorned by the Lord's image and moon-like face. The word Viṣamavāha means the sun who is on a chariot of seven (odd number= viṣama) horses as far as the moon is concerned. When the moon rises, the poet says the burning sun is made to set. Viṣamavāha also means the difficulties that devotees face, driven away by the Darshan of the Lord's face! This is a classic case of Śleṣa Rūpālaṅkāra. 

व्याकरणांशाः
मूलम्
उन्मीलयन् कुमुदमुज्ज्वलयन् गिरीशमुन्मूलयन् विषमवाहभवाभितापम् ।
उद्दीपयन् वरवधूजनतानुरागमुद्द्योतते वरद ते वदनामृतांशुः ॥८४॥
पदच्चेदः
उन्मीलयन्, कुमुदम्, उज्ज्वलयन्, गिरीशम्, उन्मूलयन्, विषम-वाह-भव-अभितापम्, उद्दीपयन्, वर-वधू-जनता-अनुरागम्, उद्द्योतते, वरद, ते, वदन-अमृतांशुः
सन्धयः
भव-अभितापम्, वदन+अमृतांशुः, जनता+अनुरागम् =अकः सवर्णे दीर्घः
उद्+मीलयन्, उद्+मूलयन्= झलां जशोऽन्ते, यरोऽनुसासिकेऽनुनासिको वा
आकाङ्क्षा-अन्वयः
वरद! ते वदन-अमृतांशुः कुमुदम् उन्मीलयन्, गिरीशम् उज्ज्वलयन्, विषम-वाह-भव-अभितापम् उन्मूलयन्, वर-वधू-जनता-अनुरागम् उद्दीपयन् उद्द्योतते
Translation
Oh Lord Varada! Your moon face (filled with ambrosia) which makes the night lotuses blossom, illuunines Śiva/Hastiśaila, roots out the heat of the sun driven by seven horses/worldly suffering,kindles amorous love between groom and bride, is resplendent!
सुबन्तप्रक्रिया
उन्मीलयन्, उज्ज्वलयन्, उन्मूलयन्, उद्दीपयन् = त्, पुं, १.१, सुँ,उगिदचां सर्वनामस्थाने चऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
कुमुदम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
गिरीशम्, विषम-वाह-भव-अभितापम्, वर-वधू-जनता-अनुरागम्= अ, पुं, २.१, अम्, अमि पूर्वः
वरद= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
ते= युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
वदन-अमृतांशुः= उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
उद्द्योतते= उद्+द्युत्, भ्वादिः, आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
उन्मीलयन्, उज्ज्वलयन्, उन्मूलयन्, उद्दीपयन्= उद्+मीलयति...प्रादि, उपपदसमासः
गिरीशम्= गिरेः ईशः, तम् = ६तत्
विषम-वाह-भव-अभितापम्= विषमेण उह्यते ३तत्, वाहः भवः केवलसमासः, तस्य अभितापः, ६तत्, तम्
वर-वधू-जनता-अनुरागम्= वरः वधू वरवधू, वरवधू जनता, केवल समासः, तेषां अनुरागः ६तत्, तम्
वदन-अमृतांशुः= अमृतस्य अंशुः ६तत्, वदनं अमृतांशुरिव, कर्मधारयः