Thursday, February 15, 2024

Shloka 95 - Sri Varadarajastava




        Click on the image to open:

       सिद्धौषधं जयति तेऽधररत्नपात्रे तापत्रयी झटिति मुञ्चति येन सिक्तम् ।      मन्ये तुषारकिरणं गुणलेशयोगादस्यैव वारिजविलोचन कल्कपुञ्जम् ॥९५॥
T:  Oh lotus-eyed  Lord, Śrī Varadarāja, Your gemlike lips are like the vessel is which is Siddhauṣadha, a surefire medicine for all ills. The Jiva bathed in that antidote is cleansed of the Tāpatrayam. A trace of that medicine's effectiveness is found in the moon on account of his being     the waste residue left in the crucible after extracting the medicine. 
Explanation: The Lord's gentle smile on His lips is the supreme remedy and antidote for all worldly ills called patrayam. Anything touched or wetted by that supreme smile sees that worldly ills leave it scattered instantly.  In patrayam, the one element of physical ills is addressed by the moon known for his healing effects. This is attributed by the poet to the moon holding perhaps the waste residue from the crucible wherein the Lord's supreme medicine was prepared. 
When oil is extracted from seeds, the waste residue is roughage holding but a tiny bit of the valuable oil. The waste left after extracting the essence is the residue called कुल्क.  The poet exclaims that the moon himself, being merely the waste residue, is so effective in curing physical ills and giving much joy. Then imagine how delightful is the effect of the core essence, i.e. the Lord's smile! 
व्याकरणांशाः
मूलम्
सिद्धौषधं जयति तेऽधररत्नपात्रे तापत्रयी झटिति मुञ्चति येन सिक्तम् ।
मन्ये तुषारकिरणं गुणलेशयोगादस्यैव वारिजविलोचन कल्कपुञ्जम् ॥९५॥
पदच्चेदः
सिद्धौषधम्, जयति, ते, अधर-रत्न-पात्रे, तापत्रयी, झटिति, मुञ्चति, येन, सिक्तम्, मन्ये, तुषार-किरणम्, गुण-लेश-योगात्, अस्य, एव, वारिज-विलोचन, कल्क-पुञ्जम्
सन्धयः
सिद्धौषधम्, तुषार-किरणम्= मोऽनुस्वारः
ते+अधर-रत्न-पात्रे= एङः पदान्तादति
गुण-लेश-योगात्+अस्य= झलां जशोऽन्ते
अस्य+एव= व्रिद्धिरेचि
आकाङ्क्षा-अन्वयः
वारिज-विलोचन ! ते अधर-रत्न-पात्रे सिद्धौषधम् जयति येन सिक्तम् तापत्रयी झटिति मुञ्चति| अस्य एव कल्क-पुञ्जम् गुण-लेश-योगात् तुषार-किरणम् मन्ये
Oh Lord with lotus-eyes, Your lips are the gem-vessel holding the Siddhauṣadha, a surefire medicine for all ills, being anointed with which all the three ills of the world are dispelled. I think that the moon, with his curative effect, is just the the waste residue left after extracting this essence!
सुबन्तप्रक्रिया
सिद्ध+ओषधम् = वृद्धिरेचि
सिद्धौषधम्, सिक्तम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि उर्वः
ते = युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
अधर-रत्न-पात्रे=अ, नपुं, ७.१, ङि, आद्गुणः
तापत्रयी=ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
झटिति, एव= अव्ययम्
येन = यद्, नपुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिण्गसामिनात्स्याः, आद्गुणः
तुषार-किरणम्, कल्क-पुञ्जम्= अ, पुं, २.१, अम्, अमि उर्वः
गुण-लेश-योगात्= अ, पुं, ५.१, ङसिँ, टाङसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः
अस्य= इदम्, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, हलि लोपः
वारिज-विलोचन = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
जयति = जि, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः एकवचनम्
मुञ्चति= मुच्, तुदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
मन्ये = मन्, दिवादिः, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सिद्धौषधम्= सिद्धम् ओषधम् कर्मधारयः
अधर-रत्न-पात्रे= रत्नेन कृतं पात्रं मध्यमपदलोपी तृतीया तत्, अधरं रत्नपात्रमिव उपमानोत्तरपदकर्मधारयः
तापत्रयी= त्रयाणां तापानां समाहारः, द्विगुः
तुषार-किरणम्= तुषारस्य किरणम् ६तत्, तम्
गुण-लेश-योगात्= गुणस्य लेशः ६तत्, तस्य योगः, तस्मात् ६तत्
वारिज-विलोचन= वारिजमिव लोचनम् कर्मधारयः, लोचनम् यस्य सः समानाधिकरणबहुव्रीहिः, हे
कल्कपुञ्जम् = कल्कस्य पुञ्जम् ६तत्